________________
पाद-३, सूत्र-५०-५२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[२१
त्मनेपदमेव, वृत्त्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते-निष्क्रमते, प्रतिक्रमते,-न प्रतिहन्यते इत्यर्थः ।। ४६ ॥
न्या० स०-परोपा०:-परानामतीति-कोऽर्थः ? परावृत्त्या कामति शौर्य वा कुरुते । उपक्कामति समीपे गच्छतीत्यर्थः ।
वेः स्वार्थे । ३. ३.५० ॥
स्वार्थः पादविक्षेपः, तस्मिन् वर्तमानाद् वेः परात् क्रमेः कर्तर्यात्मनेपदं भवति । साधु विक्रमते गजः । स्वार्थे इति किम् ? अश्वेन विक्रामति, विक्रामत्यजिनसंधिः,-स्फुटतीत्यर्थः; विक्रामति राजा,-उत्सहते इत्यर्थः ।। ५० ॥
न्या० स०-वेः स्वार्थे-अश्वेन विक्रामतीति-नन्वत्रापि पादविक्षेप एव ऋमिर्वर्त्तते स च कर्तृ कृतः करणकृतो वा भवतु ? सत्यं, * गौणमुख्ययोः इति न्यायात् सर्वकारकप्रधानभूतकर्तृकृत एव गृह्यते, अत्र तु करणकृतः पादविक्षेप इति न भवति । विक्रामति राजेति-'परोपात्' ३-३-४९ एवेति नियमात् 'वृत्तिसर्ग' ३-३-४८ इत्यादिनापि न ।
प्रोपादारम्भे ॥ ३. ३. ५१ ॥
प्रारम्भ प्रादिकर्म, अङ्गीकरणं चेत्यन्ये, तस्मिन् वर्तमानात् प्रोपाभ्यां परात् कमेः कर्तर्यात्मनेपदं भवति । प्रक्रमते, उपक्रमते भोक्तुम् ,-प्रारमते अङ्गीकरोति चेत्यर्थः । आरम्भ इति किम् ? पूर्वेयुः प्रकामति,-गच्छतीत्यर्थः; अपरेधुरुपकामृति-समीपमागच्छतीत्यर्थः । “परोपात्" [ ३. ३. ४६ ] इत्यनेनापि न भवति वृत्त्यादेरर्थस्याविवक्षितत्वात् । अन्ये तु स्वार्थविषय एवारम्भे मन्यन्ते, तेनोपक्रमते, प्रक्रमते-पादाभ्यां गन्तुमारभत इत्यर्थ इत्यत्रैव भवति, स्वार्थविषयारम्भादन्यत्र तु प्रनामति, उपक्कामति भोक्तुमित्यत्र न भवति ॥५१॥
श्राडो ज्योतिरुद्गमे ॥ ३. ३. ५२ ॥
आङः परात् क्रमेयोतिषां-चन्द्रादीनामुद्गमे-ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात् कर्तर्यात्मनेपदं भवति । प्राक्रमते चन्द्रः, आक्रमते, सूर्यः,-उदयते इत्यर्थः; दिवमाक्रममाणेन केतुना, अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जनव्याप्तिवचन: क्रमिः । ज्योतिरुद्गम इति किम् ? आक्रामति मारणवक: कुतुपम् ,-अवष्टम्नातीत्यर्थः । ज्योतिरिति किम् ? धूम आक्रामति,-उद्गच्छतीत्यर्थ; प्राकामति धूमो हर्म्यतलम् ,-उद्गच्छन् व्याप्नोतीत्यर्थः । उद्गम इति किम् ? 'नमः समानामति नष्टवर्मना, स्थितकचक्रण रथेन भास्करः ।" अत्र व्याप्तिमात्रं विवक्षितम् , न तूद्गमोपसर्जनव्याप्तिः । अन्ये तूद्गमोपसर्जनां व्याप्ति पश्यन्तोऽसाधुमेनं मन्यन्ते ।। ५२ ॥