________________
पाद-३, सूत्र-६२-६८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[२८७
उत्पूर्वान्नयतेर्भावाऽकोंर्वा घञ् भवति । उन्नायः, उन्नयः ॥६१।। अवात् ॥ ५. ३. ६२॥ अवपूर्वान्नयते वाऽकोंर्घञ् भवति । प्रवनायः ।।६२॥ परेद्य ते ॥ ५. ३. ६३ ॥ परिपूर्वान्नयते तविषये धात्वर्थे वर्तमानाद् भावाऽकोंर्घञ् भवति ।
परिणायेन शारीन् हन्ति, समन्तान्नयनेनेत्यर्थः । द्यूत इति किम् ? परिणयः कन्यायाः॥६३॥
भुवोऽवज्ञाने वा ॥ ५. ३. ६४ ॥
परिपूर्वाद् भवतरेवज्ञानेऽर्थे वर्तमानाद् भावाकळपञ् वा भवति । अवज्ञानम. सत्कारपूर्वकोऽवक्षेपः।
परिभावः, परिभवः । अवज्ञान इति किम् ! समन्ताद् भवनं परिभवः ॥६४॥ यज्ञे ग्रहः ॥ ५. ३. ६५॥ परिपूर्वाद् अहेर्यज्ञविषये प्रयोगे भावाऽकोंर्घन भवति ।
पूर्वपरिग्राहः, उत्तरपरिग्राहः, वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष एताभ्यामभिधीयते । यज्ञ इति किम् ? परिग्रहः कुटुम्बिनः ॥६५॥
संस्तोः ॥ ५. ३. ६६ ॥
संपूर्वाद स्तोतेर्भावाऽक?र्यज्ञविषये घञ् भवति । संस्तुवन्त्यत्रेति संस्तावश्छन्दोगानाम्, समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते। यज्ञे इत्येव ? संस्तवोऽन्यदृष्टे ॥६६॥
प्रात् न -P-स्तोः ॥ ५. ३. ६७॥
प्रात् परेभ्यः स्रवत्यादिभ्यो भावाऽकोंर्घञ् भवति । प्रस्रावः, प्रद्रावः, प्रस्तावः । प्रादिति किम् ? स्त्रवः, द्रवः, स्तवः । कथं साव: ? बहुलाधिकारात् ॥६७।।
अयज्ञे स्त्रः॥ ५. ३. ६८ ॥
प्रपूर्वात् 'स्तृ' इत्येतस्मात् धातो वाऽकत्रोघञ् भवति । अयज्ञे-न चेत् यज्ञविषयः प्रयोगो भवति ।
प्रस्तारः, मणिप्रस्तारः, विमानप्रस्तारः, नयप्रस्तारः। अयज्ञ इति किम् ? बहिप्रस्तरः, “समासेऽसमस्तस्य" (२-३-१३) इति षत्वम् ॥६॥