________________
२७६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद ३, सूत्र-९-१२
न्या० स०-कदाको-अनद्यतनार्थवृत्तित्वादिति-अनद्यतन एव हिप्रत्ययविधानात् । । भूते तु नित्यमिति-ये कदाहियोगे सर्वेषु कालेषु वर्तमानामिच्छन्ति तन्मतमऽपास्यमित्याह ।
किंवृत्ते लिप्सायाम् ॥ ५. ३. १ ॥
विभक्त्यन्तस्य डतर-डतमान्तस्य च किमो वृत्तं-किंवृत्तमिति वैयाकरणसमयः, तेन किंतरां कितमामिति न किंवृत्तम् । तस्मिन्नुपपदे प्रष्टुलिप्सायां गम्यमानायां वर्त्यत्यर्थे वर्तमानाद् धातोर्वर्तमाना वा भवति, पक्षे भविष्यन्ती-श्वस्तन्यावपि भवतः । लन्धुमिच्छा-लिप्सा।
को भवतां भिक्षां ददाति दास्यति दाता वा, के के भवन्तो भोजयन्ति भोजयिज्यन्ति भोजयितारो वा, कतरो भवतोमिक्षां ददाति दास्यति दाता वा, कतमो भवतां मिक्षां ददाति दास्यति दाता वा । किंवृत्त इति किम् ? भिक्षां दास्यति । लिप्सायामिति किम् ? क: सिद्धपुरं यास्यति ।।९।।
लिप्स्यसिद्धौ ॥ ५. ३. १० ॥
लब्धुमिष्यमाण ओदनादिलिप्स्यस्तस्मात् सिद्धौ-स्वर्गाद्यवाप्तिलक्षणायां गम्यमानायां वत्स्य॑त्यर्थे वर्तमानाद् धातोर्वो वर्तमाना भवति,पक्षे भविष्यन्ती-श्वस्तन्यावपि भवतः। प्रकिंवृत्तार्थोऽयमारम्भः।
यो भिक्षां ददाति दास्यति दाता वा स स्वर्गलोकं याति यास्यति याता वा, लिप्स्याद् भक्तात स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति ॥१०॥
न्या० स०-लिप्स्यसिद्धौ-यो भिक्षां ददातीति-अत्रोभयोर्वाक्ययोमिलितयोलिप्स्य. सिद्धिरवगम्यते तेनोभयत्राप्यनेनैव वर्तमाना सिद्धा।
पञ्चम्यर्थ हेतौ ।। ५. ३. ११॥
पञ्चम्यर्थः प्रैषादिस्तस्य हेतुनिमित्तमुपाध्यायागमनादि तस्मिन्नर्थे वय॑ति वर्तमानाद् धातोर्वर्तमाना वा भवति, पक्षे भविष्यन्ती-श्वस्तन्यावपि भवतः।
उपाध्यायश्चेवागच्छति आगमिष्यति प्रागन्ता वा, अथ त्वं सूत्रमधीष्व, अथ त्वमनुयोगमावत्स्व; अत्र भविष्यदुपाध्यायागमनमध्ययनादिविषयस्य प्रेषस्या तिसर्गस्य प्राप्तकालतायाश्च हेतुर्भवति ॥११॥
न्या० स०-पञ्चम्यर्थहे-प्रेषस्येत्यादि-न्यक्कारपूर्व प्रेषणं प्रेषः, अनुमतादेशदानमतिसर्गः, अवसरः प्राप्तकालता।
सप्तमी चोर्धमौहर्तिके । ५. ३. १२ ॥ ऊर्ध्व मुहूर्ताद् भव ऊर्ध्वमौहूर्तिकः "नाम नाम्ना०" (३-१-१८) इति समासः,