________________
॥ अहम् ।। अथ पञ्चमाध्याये तृतीयपादः वस्य॑ति गम्यादिः॥ ५. ३. १ ॥
गम्यादयः शब्दा वय॑ति-भविष्यति धात्वर्थे इन्नादिप्रत्ययान्ताः साधवो भवन्ति, अनेन सामान्यत: सिद्धानां प्रत्ययानां भविष्यद्धात्वर्थता विधीयते ।
गमिष्यतीति-गमी ग्रामम्, इन्नौणादिक: सति प्राप्तो वयति भवति । आगामी, भावी, प्रस्थायी, एभ्य औणादिको णिन् । प्रयायी, प्रतियायी, प्रबोधी, प्रतिबोधी, प्रतिरोधी एभ्योऽजातेः शीले प्रावश्यके वा णिन् सिद्धो भविष्यति नियम्यते । कथं श्वो ग्रामं गमी ? भविष्यत्सामान्ये पदं निष्पाद्य पश्चाच्छ्वःशब्देन योगः कार्यः ॥१॥
___ न्या० स०-वय॑ति-सामान्यतः सिद्धानामिति-ननु गमेरिन्नित्यादीनां सत्यधिकारे विहितत्वात् कथं सामान्यत: सिद्धता ? सत्यं,-एकदेशेन, गम्यादिगणे हि प्रयायीत्यादौ 'अजातेः शीले' ५-१-१५४ इत्यादिभिणिन् , ते चानिद्दिष्टकालत्वात् सामान्यतः सिद्धाः । उणादिप्रत्ययानां सत्यथें विधानात अप्राप्तौ वय॑त्यर्थे विधिः, अन्येषां च सामान्यविधानात वय॑त्येवेति नियम इति सिद्धम् । कथमिति-अनद्यतने श्वस्तनी प्राप्नोति, न णिन्नित्याशङ्कार्थः ।
वा हेतुसिद्धौ क्तः ।। ५. ३. २ ॥
हेतु:-कारणं तस्य सिद्धिः-निष्पत्तिः, वय॑त्यर्थे वर्तमानाद् धातोर्धात्वर्थे हेतोः सिद्धौ सत्यां क्तः प्रत्ययो वा भवति ।
कि ब्रवीषि वृष्टो देवः संपन्नास्तहि शालयः संपत्यस्यन्त इति वा, प्राप्ता नौस्तीर्णा तहि नदी तरिष्यत इति वा ॥२॥
कषोऽनिटः॥ ५. ३.३॥ कषेः-कृच्छ-गहनयोरनिट्त्वमुक्तम्. तस्माद् वय॑ति वर्तमानात् क्तो भवति ।
कषिष्यतीति-'कष्टम् , कष्टा दिशस्तमसा । सत्यपि कश्चित , कषति-कष्टम् । अनिट इति किम् ? कषिताः शत्रवः शूरेण ।।३।।
न्या० स०-कषोऽनिट:-कषिष्यतीति-अर्थकथनमिदं यावता कष्टगहने वय॑ति क्त एव भवति, असरूपविधिरपि नेष्टः, पूर्वत्र वाग्रहणात् । कषिताः शत्रय इति-अत्र भविष्य. तापि नास्तीति द्वयङ्गविकलतेति नाशङ्कनीयं यतोऽनिट इति विशेषणे सति वय॑तीति वाच्यं स्थितेष्वेतत्समर्थनमिति न्यायात् ।
भविष्यन्ती ॥ ५. ३. ४ ॥