________________
पाद - २, सूत्र - २० ]
श्री सिद्ध हेमचन्द्र शब्दानुशासने पंचमोऽध्यायः
[ २५५
अस्ति; अधीयानः अधीते; विद्यमानः, विद्यते; जुह्वत्, जुहोति विदन् वेत्ति; जानन् जानाति ब्राह्मणः ।
तथा तरादौ प्रत्यये पचत्तरः, पचत्तमः, पचतितरां पचतितमाम् । पचद्रूपः, पचतिरूपम् | जल्पत्कल्पः, जल्पतिकल्पम् । पश्यद्देश्यः, पश्यतिदेश्यम् । पठद्देशीयः पठतिदेशीयम् । एवं पचमानतरः, पचमानतमः, पचतेतरां पचतेतमामित्यादि ।
द्वितीयाद्यन्तपदसामानाधिकरण्य-संबोधन-तरादिर्वाजततद्धितप्रत्ययोत्तरपद-क्रिया
लक्षण - क्रिया हेतुषु वर्तमानाया अन्वयायोगात् शत्रानशावेव पचन्तं पचमानं पश्य, पचता पचमानेन कृतम्, पचते पचमानाय देहि, पचतः पचमानाद् भीतः, पचतः पचमानस्य स्वम्, पचति पचमाने गतः, संबोधने - हे पचन् ! हे पचमान ! तराद्यन्यतद्धिते - कुर्वतोऽपत्यं कौर्वतः, पाचतः, वैक्षमारिणः कुर्वत्पाशः, पचत्पाशः; कुर्वच्चरः, पचच्चरः । उत्तरपदे -भज्यत इति भक्तिः, कुर्वन् भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणभक्तिः; कुर्वत्प्रियः कुर्वाणप्रियः; ब्रुवन्माठरः, ब्रुवाणमाठरः । क्रियाया लक्षणं ज्ञापकं चिह्नम, तत्र तिष्ठन्तोऽनुशासति गणकाः, शयाना भुञ्जते यवनाः, बहुषु मूत्रयत्सु कश्चैत्र इति पृष्टः कश्चिदाह-यस्तिष्ठन् मूत्रयति, एवं - यो गच्छन् भक्षयति, यः शयानो भुङ्क्ते, योऽधीयान् श्रास्ते । तथा यः पठन् पचति स मैत्र:, एवं यः पचन् पठति; योऽधीयान प्रास्ते, य श्रासीनोऽधीते । तथा
"फलन्ती वर्द्धते द्राक्षा, पुष्प्यन्ती वर्द्धतेऽग्जिनी | शयाना वर्धते दूर्वा, प्रासीनं वर्धते बिसम् ॥”
क्रियाया हेतुर्जनकस्तत्र - श्रर्जयन् वसति, अधीयानो वसति ।
यति तु सस्यौ-यास्यन्, शयिष्यमाणः, पक्ष्यन्, पक्ष्यमाण:; यास्यति, शयिष्यते, पक्ष्यति, पक्ष्यते । तथा भविष्यन् भविष्यति; अध्येष्यमाणः, अध्येष्यते ब्राह्मण इत्यादि । तथा - पक्ष्यत्तरः, पक्ष्यमाणतमः, पक्ष्यतितराम्, पक्ष्यतितमामित्यादि; सर्वेष्वेकविषयत्वाद् भविष्यन्त्यपि । ' पक्ष्यन् व्रजति, पक्ष्यमाणो व्रजति' इति क्रियायां क्रियार्थायाम्, एकविषयत्वाच्च भविष्यन्त्यादयोऽपि पक्ष्यामीति व्रजति, पाचको व्रजति, पक्तुं व्रजति । पूर्ववदेव च द्वितीयाद्यन्तसामानाधिकरण्यादिषु भविष्यन्त्याः समन्वयाभावादभाव:- पक्ष्यन्तं पश्य, पक्ष्यमाणं पश्य । हे पक्ष्यन् ! हे पश्यमाण ! ब्राह्मण ! पाक्ष्यतः, पाक्ष्यमारिणः, पक्ष्यमाणपाशः, पक्ष्यद्भक्तिः, पक्ष्यमाणप्रियः, जल्पिष्यन्तो ज्ञास्यन्ते पण्डिताः, अध्येष्यमाणा वत्स्यन्तीत्यादि । सदेष्यतोरभावे तु श्वः पक्ता ।
बहुलाधिकाराद् द्रव्य-गुणयोर्लक्षणे, हेतुहेतुमद्भावद्योतके त्यादियोगे च न भवतियः कम्पते सोऽश्वत्थः, यत् तरति तल्लघु, हन्तीति पलायते, वर्षतीति धावति, करिष्यतीति व्रजति, हनिष्यतीति नश्यति, पचत्यतो लभते, विजयतेऽतः पूज्यते । क्रियाया श्रपि लक्षणे चादियोगे न भवति यः पचति च पठति च स चैत्रः, योऽधीते चास्ते च स मैत्रः, शकारः · शित्कार्यार्थः । ऋकारो ङयाद्यर्थः || २०॥
न्या० स० - शत्रानशा० - स्योऽपि प्रत्ययत्वादिति - शत्रानशौ प्रथमं प्रधानत्वात् धातोर्विधीयेते, ततः प्रत्ययत्वादेव स्योऽपि धातोरेवानन्तरं न तु शत्रानश्भ्यां परः ।