________________
पाद-२, सूत्र-१६-१८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचऽमोध्यायः
[२५३
न्त्यन्ये, एवमुत्तरसूत्रे पुरादियोगे वर्तमानाम् । हशश्वच्छन्दयोगेऽपि पुरादियोगे परत्वाद् विकल्पेनाऽद्यतनी-इति ह पुराऽकार्षीत, अकरोत्, चकार, शश्वत् पुराऽकार्षीदकरोच्चकार । भूतमात्रविवक्षयाऽद्यतन्या: सिद्धौ पुरादियोगे तद्वचनं स्मृत्यर्थ-ह-शश्वत्स्मयोगे सामान्यविवक्षयाऽद्यतनी न भवतीति ज्ञापनार्थम् ॥१५॥
न्या० स०-वाद्यतनी-ते अपि भवत इति-वाकरणादऽन्यथा च शब्दं कुर्यात् । अद्यतन्याः सिद्धाविति-'अद्यतनो' ५-२--४ इत्यनेन । सामान्यविवक्षयेति-भूतानद्यतनविवक्षायां तु पुरादियोगेऽनेन भवत्येव ।
स्मे च वर्तमाना ॥ ५. २. १६ ॥
भूतानद्यतने परोक्षेऽपरोक्षे चार्थे वर्तमानाद् धातोः स्मशब्दे पुरादौ चोपपदे वर्तमाना विभक्तिर्भवति।
इति स्मोपाध्यायः कथयति, पृच्छति स्म पुरोधसम् , वसन्तीह पुरा छात्राः, भाषते राघवस्तदा।
“अथाह वर्णी विदितो महेश्वरः, यावद् गिरः खे मरुतां चरन्ति ।” (कुमारसम्भवे)
आदिग्रहणमिह पूर्वत्र च प्रयोगानुसरणार्थम् । एवं च पुरावियोगेऽद्यतनी-शस्तनीपरोक्षा-वर्तमानाश्चतस्रो विभक्तयः सिद्धाः स्म-परायोगे त परत्वाद वर्तमानव-नटेन स्म पुराऽधीयते । एवं-ह-शश्वत्-स्म-योगेऽपि-इतिह स्मोपाध्यायः कथयति, शश्वदधीयते स्म । त्रययोगेऽप्येवम्-न ह स्म वै पुराऽग्निरपरशुवृक्णं दहतीति ।। १६ ॥
न्या० स० स्मे च वर्तमाना-स्मशब्दोऽतीतकालद्योतकश्चादिः । पुरादियोगे इतिननु पुरादियोगः स्मयोगश्च भवति तदा कि पूर्वेणाद्यतनी उतानेन वर्तमाना इत्याहपरत्वादिति ।
ननौ पृष्टोक्तौ सद्धत् ॥ ५. २. १७॥
अनद्यतन इति निवृतम् , पृष्टस्य धात्वर्थस्योक्तिः प्रतिवचनं-पृष्टोक्तिः । ननुशन्दे उपपदे पृष्टोक्तौ भूतेऽर्थे वर्तमानाद् धातोः सद्वत्-वर्तमान इव वर्तमाना विभक्तिर्भवति । सद्वद्वचनादत्र विषये शत्रानशावपि भवतः।
किमकार्षीः कटं चैत्र ? ननु करोमि भोः ! ननु कुर्वन्तं कुर्वाणं मां पश्य, किमवोचः किंचिच्चैत्र ? ननु ब्रवीमि भोः ! ननु ब्रु वन्तं ब्रवाणं मां पश्य । पृष्टोक्ताविति किम् ? नन्वकार्षीच्चैत्रः कटम् ।।१७।।
न्या० स०-ननौ-अनद्यतन इति निवृत्तमिति-अपेक्षात इति न्यायात् । ननु कुर्वन्तं 'कुर्वाणमिति-करोमि कुर्वे इति वाक्ये शत्रानशौ, कृतकार्य मां पश्येत्यर्थः ।
न-न्वोर्वा ॥ ५. २. १८ ॥