________________
पाद-१, सूत्र-९५-९८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचऽमोध्यायः
[२२९
दण्डादोन वर्जयित्वा आयुधादिभ्यः कर्मभ्यः परात् धृगो धातोरच भवति । धनुर्धरति-धनुर्धरः, शक्तिधरः, चक्रधरः वज्रधरः, शूलधरः, हलधरः । प्रादिग्रहणाद् भूधरः, जलधरः, विषधरः, शशधरः विद्याधरः, श्रीधरः, जटाधरः, पयोधरः । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति । अदण्डादेरिति किम् ? दण्डधारः, कुण्डधारः, काण्डधारः, कर्णधारः, सूत्रधारः, छत्रधार ।।६४॥
__न्या० स०-प्रायुधादि-दण्डादीनां वर्जनात्तेभ्योऽण् निणिन्ये, अन्यथा युधादिद्वारोऽच् प्रत्ययोऽपि स्यादिति संदेहः स्यात् ।
हगो वयो-ऽनुद्यमे ॥ ५. १. १५ ॥
कर्मणः पराद्धरतेर्वयसि अनुद्यमे च गम्यमाने अच् भवति । प्राणिनां कालकृतावस्था क्य, उद्यम उत्क्षेपणम्, आकाशस्थस्य वा धारणम्, तदभावोऽनुद्यमः । अस्थिहरः श्वशिशुः, कवचहरः क्षत्रियकुमारः । अनुद्यमे अंशहरो दायादः, मनोहरः प्रासादः, मनोहरा माला । संज्ञायां टोऽपीति कश्चित्-मनोहरी विषहरी मणिः । वयो-ऽनुद्यम इति किम् ? भारहारः । वयसि क्रियमाण: संभाव्यमानो वोद्यम उच्यमानो वयो गमयतीति उद्यमार्थ वयोग्रहणम् ।। ९५ ।।
न्या० स०-हगो वयो-क्रियमाण इति-क्रियमाणतया संभाव्य मान इत्यर्थः । संभाव्यमानो वेति-अकुर्वन्नपि, ततः कर्मास्मिन् , कर्मणि अयं शक्त इत्येवं संभाव्यमान इत्यर्थः । वयोग्रहणमिति-नन्वत्र वयोग्रहणं किमर्थम् ? इत्याह-उद्यमार्थमिति, अयमर्थो यत्र वयस्तत्रोद्यमेऽसत्यपि भवतीत्यर्थ , यथा कवचहर इत्यादौ ।
आङः शीले ।। ५.१.१६ ॥
कर्मणः परादाङपूर्वाद्धरतेः शीले गम्यमानेऽच् प्रत्ययो भवति, शीलं स्वाभाविकी प्रवृत्तिः ।
पुष्पाण्याहरतीत्येवंशील:-पुष्पाहरः, फलाहरः, सुखाहरः, पुष्पाद्याहरणे स्वाभाविकी फलनिरपेक्षा वृत्तिरस्येत्यर्थः । आङ इति किम् ? पुष्पाणि हर्ता, तृन् । शील इति किम् ? पुष्पाहारः। 'सुखाहरः' इत्यशीलेऽनुद्यमेऽर्थे पूर्वेणाच् । लिहादिप्रपञ्चः प्रकरणमिदम् ॥१६॥
न्या० स०-प्राङः शोले-ननु लिहादिगणे एव धातूपपदार्थनियमः क्रियतां, किममीभिः सूत्रः ? इत्याह-लिहादिप्रपञ्च इति ।
दृति नाथात् पशाविः ।। ५. १. १७ ॥
प्राभ्यां कर्मभ्यां पराद्धरतेः पशौ कर्तरि 'इ.' प्रत्ययो भवति । दृति हरति-दृतिहरिः श्वा, नाथहरिः सिंहः । पशाविति किम् ? दृतिहारो व्याधः, नाथहारी गन्त्री ॥७॥
रजः-फले-मलाद ग्रहः ॥ ५. १. १८ ॥