________________
२२२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-१, सूत्र-५९-६३
साहि-साति-वेद्य देजि-धारि-पारि-चेतेरनुपसर्गात् ॥ ५. १.५१ ॥ एतेभ्य उपसर्गरहितेभ्यो ण्यन्तेभ्यः शः प्रत्ययो भवति ।
साहि-साहयतीति-साहयः । सातिः सौत्रो धातुः-सातयः. वेदि-वेदयः, उदेजिउदेजयः, धारि-धारय , पारि पारयः, चेति-चेतयः । अनुपसर्गादिति किम् ? प्रसाहयिता। छत्रधार इति परत्वादणव ।।५।।
लिम्प-विन्दः ॥ ५. १.६० ॥
अनुपसर्गाभ्यां लिम्प-विन्दिभ्यां शो भवति । लिम्पतीति-लिम्पः, विन्दतीतिविन्दः । अनुपसर्गादित्येव ? प्रलिपः ॥६० ।
न्या० स०-लिम्पविन्दः-लिम्पिसाहचर्यात् विन्देस्तौदादिकस्य ग्रहः, न तु विदु अवयवे इत्यस्य ।
नि-गवादेर्नाम्नि ॥ ५. १.६१ ॥ यथासंख्यं निपूर्वाद लिम्पेर्गवादिपूर्वाच्च विन्देर्नाम्नि-संज्ञायां शो भवति ।
निलिम्पन्तीति-निलिम्पा नाम देवाः । गा विन्दतीति-गोविन्दः, कुविन्दः, अरविन्दः कुरुविन्दः, उरविन्दः । नाम्नीति किम् ? निलिपः ।।६१॥ . न्या० स०-निगवादे -अरविन्द इति - चक्रावयव विशेषः, अब्जे तु क्लीवत्वम् , कश्चित्त्वऽब्जेऽपि पुंस्त्वमाह, राजा च ।
वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोणः ॥ ५. १. ६२॥
ज्वलादेर्गणात दु-नी-भू-प्रहिभ्य आङ्-पूर्वाच्च स्रवतेरनुपसर्गाण्णो वा भवति, पहिपर्यन्ता ज्वलादयो वृत्करणात । ज्वलः, ज्वालः । चलः, चाल: । 'निपातः, उत्क्रोशः' इति बहलाधिकारात् । दवः. दावः । नयः, नायः । दुनीभ्यां नित्यमेवेत्येके । भवः, भावः । व्यवस्थितविभाषेयम् , तेन-ग्राहो मकरादिः, ग्रहः सूर्यादिः । आस्रवः, प्रास्रावः । अनुपसर्गादित्येव ? प्रज्वलः, प्रदवः, प्रणयः, प्रभवः, प्रग्रहः, प्रस्रवः । १ ज्वल २ कुच, ३ पतल, ४ पथे, ५ क्वथे, ६ मथे, ७ षद्ल, ८ शल, ९ बुध, १० टुवमू, ११ भ्रमू, १२ क्षर, १३ चल, १४ जल, १५ टल, १६ टवल, १७ष्ठल, १८ हल, १९ णल, २० बल, २१ पुल, २२ कुल, २३ पल, २४ फल, २५ शल, २६ हुल, २७ क्रुशं, २८ कस, २९ रुहं, ३० रमि, ३१ षहि वृत् इति ज्वलादिः ।।६२॥
न्या० स०-वा ज्वलादि०-बहुलाधिकारादिति-सोपसर्गादपीत्यर्थः । अवह-सा-संस्रोः॥ ५. १. ६३ ॥ अवपूर्वाभ्यां हृ-साभ्यां संपूर्वाच्च स्रवतेणः प्रत्ययो भवति । अवहारः, अवसायः, संत्रावः । संस्रव इत्यपि कश्चित् ।।६३॥ .