________________
२२०]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद-१, सूत्र-५२-५४
ब्रुवो धातोरचि ब्रुव इति निपात्यते । ब्राह्मणमात्मानं ब्रूते-ब्राह्मण वः । अण्वचादेश-गुणबाधनाथ निपातनम् ॥५१॥
नन्द्यादिभ्योऽनः॥ ५. १. ५२ ॥
नन्द्यादिभ्यो धातुभ्यो नामगणे दृष्टेभ्योऽनः प्रत्ययो भवति । नन्द्यादयो नन्दनरमणेत्यादिनामगणशब्देभ्योऽपोद्धृत्य वेदितव्याः, स च सप्रत्ययपाठो विशिष्ट विषयार्थो रूपनिग्रहायश्च ।
नन्दि-वाशि-मदि-दूषि-साधि-वधि-शोभि-रोचिभ्यो ण्यन्तेभ्यः संज्ञायाम्नन्दनः, वाशनः, मदनः, दूषणः, साधनः, वर्धनः, शोभनः, रोचनः । सहि-रमि-दमिरुचि-कृति-तपि-तृदि-दहि-यु-पू-लुभ्यः संज्ञायामेवाण्यन्तेभ्यः-सहते-सहनः, एवं-रमणः, दमनः, रोचनः विरोचनः, विकर्तनः, तपनः, प्रतर्दनः, दहनः, यवनः, पवनः, लवणः, निपातनाण्णत्वम् । समः क्रन्दि-कृषि-हृषिभ्य: संजायामेव-संक्रन्दनः, संकर्षण. संहर्षणः । कर्मणो दमि-अदि-नाशि-सूदिभ्यः-सवदमनः, जनार्दनः, वित्तविनाशनः मधुसूदनः, असंज्ञायामपि-रिपुदमनः, कुलदमनः, परार्दनः, रोगनाशनः, अरिसूदनः । नदि-भीषि-भूषि-दृपि जल्पिभ्यः-नर्दयति-नर्दनः, विभीषयते-विभीषणः । भूषयति-भूषणः, दृप्यति-दर्पणः, जल्पति-जल्पनः । बहुवचनमाकृतिगरणार्थम् ।। ५२॥
न्या० स०-नन्द्यादिभ्यो-सप्रत्ययपाठ इति-अथ प्रकृतय एव पठ्यन्तां कि सप्र. त्ययपाठेनेत्याह-विशिष्टविषयार्थ इति-तेन ये निरुपसर्गयदुपपदोपसर्गाः पठ्यन्ते ते तथा गृह्यन्ते इत्यर्थः ।
ग्रहादिभ्यो णिन् ॥ ५. १. ५३ ।। ग्रहादिभ्यो नामगणदृष्टेभ्यो णिन् प्रत्ययो भवति ।
ग्राही, स्थायी, उपस्थायी, मन्त्री, संमर्दी । उपा-ऽवाभ्यां रुधः-उपरोधी, अवरोधी। अपाद राधः-अपराधी । उदः सहि-दसि-मासिभ्यः-उत्साही उदासी, उद्भासी । नेः श्रु-शोविश-वस-वप-रक्षिभ्यः-निशृणोति-निश्रावी, निशायी, निवेशी, निवासी, निवापी,निरक्षी। नजो व्याह-संव्याह-संव्यवह-याचि-व्रज-वद-वासिभ्यः-न व्याहरति-अव्याहारी, असंव्यवहारी, प्रयाची, अवाजी, अवादी, अवासी। नपूर्वात स्वरान्तादचित्तवत्कर्तृकात अकारी धर्मस्य बालातपः, अहारी शीतस्य शिशिरः, चित्तवत्कर्तृकान्न भवति-अकर्ता कटस्य चत्रः । केचिदनपूर्वादिच्छन्ति-कारी, हारी । व्यभिभ्यां भुवोऽतीते-विभवति स्म-विभावी, अभिभावी । वि-परिभ्यां भुवो ह्रस्वश्च वा-विभवति-विभावी, विभवी; परिभावी, परिभवी। वे: शीङ-षिगोर्देशे ह्रस्वश्च-गुणश्चित्ते विशेते विसिनोति वा-विशयीविषयी च प्रदेशः, निपातनात् षत्वम् । ग्रहादिराकृतिगणः॥५३॥
नाम्युपान्त्य-प्री-कृग-ज्ञः ।। ५. १, ५४ ॥