________________
१२ ]
बृहद्वत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-२२ २३
त्यादिनेवाव्ययेनेतिः-यथा त्याद्यभिहितो भावोऽसत्त्वरूपतां भजति तथाऽव्ययेनापीत्यर्थः, अव्ययेनेति चोपलक्षणं तेन भावे कृत्यप्रत्ययान्तेनापि तथैव ।
बहुवचनमिति-आस्यन्ते, शय्यन्ते इत्यस्य अव्ययेनेव त्याद्यभिहित भावस्येत्यर्थः ।
अभेदोपचारादिति-आस्यन्ते इत्येवंरूपस्य साध्यभावस्योष्ट्रासिकारूपेण सिद्धताख्येन सहेत्यर्थः । 'कया युक्त्या आस्यन्ते' इति कोऽर्थः ? आसनानि वर्तन्ते किंविशिष्टानि ?, उष्ट्रासिका उष्ट्रासिकारूपाणि, एवं द्वितीयेऽपि ।
इडितः कर्तरि ॥ ३. ३. २२ ॥ __इकारेतो कारेतश्च धातोः कर्तर्यात्मनेपदं भवति । इदिन-एधि एधते, स्पधि-स्पर्धते, एधमानः, स्पर्धमानः। डिव-शिङ् शेते, शयनः, ह नुङ् ह नुते, ह नुवानः; महीङ्महीयते, महीयमानः, कामयते, कामयमानः; श्येनायते, श्येनायमानः; पापच्यते, पापच्यमानः; उत्पुच्छयते, उत्पुछचमानः । एभ्य एव कर्तरीति नियमार्थ वचनम् ।। २२ ॥
न्या० स०-इडितः-भावकर्मणोः पूर्वसूत्रोपादानन्यादेव कर्तृ ग्रहणे सिद्धे तद्ग्रहणमुत्तरार्थं तेनोत्तरसूत्रेण कर्त्तयेव विधानं, ततो व्यतिगम्यन्ते ग्रामा इत्यादिषु पूर्वेणात्मनेपदं सिद्धमन्यथा अगतीत्यंशेन निषेधः स्यादिति तत्र स्वयमेव कथयिष्यति ।
नियमार्थमिति-सतीत्यादिसूत्रः परस्मैपदात्मनेपदविशेषरहितानां सामान्येन वर्त्तमानादिविभक्तीनां विधानादात्मनेपदे सिद्धे नियमः, प्रत्ययनियमश्चायं, एभ्य आत्मनेपदमेव न प्रत्ययान्तरमिति, विपरीतनियमो न 'इङितो व्यञ्जन'५-२-४४ इत्यादिकरणात, कर्त्तयेवात्मनेपदमेभ्य इत्यपि वैपरीत्यं न तत्साप्येत्यस्य व्यक्त्या प्रवृत्तेः ।
क्रियाव्यतिहारेऽगति-हिंसा-शब्दार्थ-हसो हृ-वहश्चानन्योऽन्यार्थे ॥ ३.३.२३॥
इतरेण चिकीषितायां क्रियायामितरेण हरणं करणं क्रियाव्यतिहारः, तस्मिन् अर्थे वर्तमानाद गतिहिसाशब्दार्थ-हसर्वाजताद धातोह वहिन्यां च कर्तर्यात्मनेपदं भवति, न चेदन्योऽन्यार्था:-अन्योऽन्येतरेतरपरस्परशब्दाः प्रयुज्यन्ते । व्यतिलुनते, व्यतिपुनते, व्यतिहरन्ते भारम् , संप्रहरन्ते राजानः, संविवहन्ते वगैः । हृ-वहोर्गतिहिंसार्थत्वात प्रतिषेधे प्राप्त प्रतिप्रसवार्थमुपादानम् । व्यतिहार इति किम् ? लुनन्ति, पुनन्ति । क्रियेति किम् ? द्रव्यव्यतिहारे मा भूत्-चैत्रस्य धान्यं व्यतिलुनन्ति प्रत्र लुनातिरुपसंग्रहात्मके लवने वर्तते । चैत्रेण यत् गृहीतं धान्यं पुरस्ताल्लवनेनोपसंगृह्णन्तीत्यर्थः । प्रगति-हिसाशब्दार्थ-हस इति किम ? । व्यतिगच्छन्ति व्यतिसर्पन्ति, व्यतिहिंसन्ति. व्यतिघ्नन्ति, व्यतिजल्पन्ति, व्यतिपठन्ति, व्यतिहसन्ति । अनन्योऽन्यार्थे इति किम् ? अन्योऽन्यस्य व्यतिलुनन्ति इतरेतरस्य व्यतिलुनन्ति,परस्परस्य व्यतिलुनन्ति । क्रियाव्यतिहारो व्यतिनैव घोतित