________________
१९८ ]
बृहवृत्ति-लघुन्याससंवलिते
[ पाद-४, सूत्र-८४-८६
न्या० स०-गमहनविद्ल-विदेग्रहणार्थ इति-अथ विद इत्युक्तेऽपि अदाद्यनदाद्योरिति न्यायात लाभार्थस्यैव ग्रहणं भविष्यति सताविचारार्थयोरनादित्वेऽप्यात्मनेपदित्वात् क्वसोरऽसंभवात् , नैवं,-निरनुबन्धपरिभाषया तौदादिकस्य ग्रहणाऽसंभवादुभे ह्यते वचने परस्परविरोधिनी नैवाऽत्र प्रवत्तंते, तस्माद्येन प्रकारेण निविशङ्क लाभार्थस्य ग्रहणमपपद्यते स प्रकारो वत्तौ दशित इति । अथ विशिना तौदादिकेन साहचर्याल्लाभार्थस्यैव ग्रहणं भविष्यति किम्लकारकरणेन ? नैवं, यथा विशिना साहचर्य तथा हन्तिनापि साहचर्यशङ्का स्यात्ततश्चाऽदादेरेव ग्रहः स्यात् ।
सिचोजेः ॥ ४. ४. ८४ ॥
अजेः परस्य सिच प्रादिरिड् भवति । प्राजीव , आजिष्टाम् , प्राजिषुः । सिच इति किम् ? अङ्क्ता, अञ्जिता । औदित्त्वाद्विकल्पे प्राप्ते नित्यार्थं वचनम् ।। ८४।।
धूमसुस्तोः परस्मै ॥ ४, ४.८५ ॥
एभ्यः परस्य सिच आदिरिड् भवति । परस्मैपदे परत: । धग-अधावीत, अधाविष्टाम् , अधाविषुः । सु इति सुमात्रस्य ग्रहणम् । असावीत, असाविष्टाम् , असाविषुः, स्तु-अस्तावीत , प्रस्ताविष्टाम् , अस्ताविषुः ।
परस्मा इति किम् ? अधोष्ट, अधविष्ट, असोष्ट, अस्तोष्ट, धूगो विकल्पे सुस्तुभ्यां च प्रतिषेधे प्राप्ते वचनम् ।।८।।
न्या० स०-धगसुस्तो०-असोष्टेति-सुमात्रस्येत्युक्तेऽपि धूगृ इत्यस्यायं प्रयोगः, सुं प्रसवैश्वर्ययोरित्यस्य तु आत्मनेपदं न स्यात् कर्तरि, भावकर्मणोस्तु संभवेऽपि त्रिच स्यात् ततश्चाऽसावि इति प्रयोगः स्यात् ।।
यमिरमिनम्यातः सोऽन्तश्च ॥ ४. ४. ८६ ॥
यमिरमिनमिभ्य प्रादन्तेभ्यश्च धातुभ्यः परस्य परस्मैपदविषयस्य सिच आदिरिड भवति एषां च सोऽन्तो भवति । अयंसीत् , अयंसिष्टाम् , अयंसिषः, व्यरंसीत् , व्यरंसिष्टाम् , व्यरंसिषुः, अनंसीत् , अनंसिष्टाम् । अनंसिषुः ।
एभ्यो दिस्योः सिच इविधे वृद्धिप्रतिषेधः प्रयोजनम् । आदन्त,-अयासीत् , अयासिष्टाम् , अयासिषः, अग्लासीत् , अग्लासिष्टाम् , अग्लासिषुः, अदरिद्रासीत् , अदरिद्रासिष्टाम् , अदरिद्रासिषुः, आलोपपक्षे,-अदरिद्रीत् , अदरिद्रिष्टाम् , अदरिद्रिषुः । परस्मा इत्येव ? आयंस्त, उपायंस्त, परंस्त, अनंस्तदण्डः स्वयमेव, प्रमास्त धान्यं चैत्रः।८६।
न्या० स०-यमिरमि०-सोन्तो भवतीति-अन्तग्रहात् 'षष्ठया अन्त्यस्य' ७-४-१०६ इति न प्रवर्तते । किञ्चान्तग्रहाभावेऽस्य प्रत्ययत्वं स्यात्ततोऽदरिद्रासीदित्यादौ 'स्ताद्यशितः' ४-४-३२ इत्यनेन सकारस्यादावपीट् स्यात् , दिस्योः परयोः सिचादाविट्विधानस्य किं फलमित्याह-वृद्धिप्रतिषेध इति--'
व्यञ्जनानामनिटि' ४-३-४५ इति प्राप्ताया इत्यर्थः ।