________________
बृहद्वृत्ति - लघुन्याससं वलिते
[ पाद- ३, सूत्र - १४-१७
श्वस्तनी - ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् ; ता तारौ तारस्, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे
॥ ३. ३. १४ ॥
८ ]
इमानि वचनानि श्वस्तनीसंज्ञानि भवन्ति । श्वस्तनीप्रदेशा :- " अनद्यतने श्वस्तनी" [ ५. ३.५ ] इत्येवमादयः ।। १४ ।।
भविष्यन्ती-स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामसू, स्यते स्येते, स्यन्ते, स्यसे स्येथे स्पध्वे, स्ये स्यावहे स्यामहे ।। ३. ३. १५ ॥
इमानि वचनानि भविष्यन्तीसंज्ञानि भवन्ति । भविष्यन्तीप्रदेशा. - " भविष्यन्ती" [ ५. ३ ४] इत्यादयः ।। १५ ।।
"
"
क्रियातिपत्तिः - स्यत् स्यताम् स्यन् स्थस् स्यतम् स्यत् स्यम् स्याव स्याम् ; स्थत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्स्यावहि स्यामहि ॥। ३. ३. १६ ॥
इमानि वचनानि क्रियातिपत्तिसंज्ञानि भवन्ति । क्रियातिपत्तिप्रदेशा:- "सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्ति:" [ ५.४ ६ ] इत्येवमादयः ।। १६ ।
त्रीणि त्रीण्यन्य युष्मदस्मदि । ३. ३.१७ ॥
सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे युष्मदर्थे श्रस्मदर्थे चाभिधेये यथाक्रमं परिभाष्यन्ते । अन्यत्वं युष्मदस्मदपेक्षं संनिधानात् । युष्मच्छन्दोपसृष्टार्थो युष्मदर्थ:, तेन भवच्छब्देनोच्यमानो न युष्मदर्थः । स पचति, तौ पचत ते पचन्ति; पचति पचतः पचन्ति स पचते, तौ पचेते, ते पचन्ते; पचते, पचेतें, पचन्ते भवान् पचति, भवन्तौ पचतः भवन्तः पचन्ति इत्यादि । युष्मदि-त्वं पचसि, युवां पचथः यूयं पचथ; पचसि पचथः, पचथ; त्वं पचसे, युवां पचेथे, यूयं पचध्वे; पचसे, पचेथे, पचध्वे । श्रस्मदि - अहं पचामि, प्रावां पचावः, वयं पचामः पचामि, पचावः, पचामः; अहं पचे, आवां पचावहे, वयं पचामहे; पचे, पचावहे, पचामहे । एवं सर्वासु । द्वययोगे त्रययोगे च शब्दपराश्रयमेव वचनमतिदिश्यते स च त्वं च पचथः, स चाहं च पचाव:, स च त्वं चाहं च पचामः ।