________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-१०७ १०६
तु गमो जंक्छत् । कथं यङलुबन्तात् जंगन्तीति ? वाक्ये शतरि 'गमहन' ४-२-४४ इत्युपान्त (उपान्त्य )लोपे 'अघोषे' १-३-५० इति गम्य कत्वे, यमस्तु यंयच्छत् ।
वेगे सर्तेर्धाव ॥ ४. २. १०७ ॥
सरतेवेंगे गम्यमाने शिति परे धाव् इत्ययमादेशो भवति अत्यादौ । धावति, धाव, कतीह धावमानाः। वेग इति किम् ? प्रियामनुसरति, धाविना सिद्धे सरतेवेंगे सरतीति प्रयोगनिवृत्त्यर्थं वचनम् । तिनिर्देशाद्यङ्लुपि न भवति । सस्रत, सरीस्रत्, सरिस्रत , ।१०७
श्रौति-कृ-बुधि-वुया-घ्रा-मा-स्था-म्ना-दाम् दृश्रर्तिशद-सदः शृ-कृ. धि-पिब-जिघ्र-धम-तिष्ठ मन-यच्छ-पश्यर्छशीय-सीदम् ॥ ४.२.१०८ ।।
श्रौत्यादीनां शिति परे यथासंख्यं श इत्यादय आदेशा भवन्ति अत्यादौ ।
श्रौतेः शृ-शृणोति, शृण्वन् , कृवोः कृ, कृणोति, कृण्वन् , धिवोधिः, धिनोति, धिन्वन , पः पिब:-पिबति पिबन् , श-उत्पिबः । स्वरान्तत्वादुपान्त्यलक्षणो गुणो न भवति । घ्रों-जिघ्रः, जिघ्रति, जिघ्रन् , उज्जिघ्रः, ध्मो धमः-धमति, धमन् , उद्धमः, स्थ: तिष्ठः, तिष्ठति, तिष्ठन् , उत्तिष्ठमानः, म्नो मन:-आमनति, आमनन्, कतीहामनमानाः, दामो यच्छ:-प्रयच्छति, प्रयच्छन् , दास्या संप्रयच्छमानः। दृशः-पश्यः, पश्यति, पश्यन् , शेउत्पश्यः, अर्तेऋच्छ:, ऋच्छति, ऋच्छन् , समृच्छमान:, शदेः शीयः-शीयते, शीयमानः, सदेः सीदः -सीदति, कतीह सोदमानाः, घ्रादिभिः साहचर्यात्पार्योभौवादिकयोरेव ग्रहणम् । लाक्षणिकत्वाच्च पैं इत्येतस्य न ग्रहणम् तेन पान् इग्रत् पायति ।
श्रौत्यो स्तिनिर्देश: कृवुधिवुदृशृदामामनुबन्धश्च यङ्लुप्यादेशनिवृत्त्यर्थः । शोश्रुवत् । अर्तेर्यङ्लुपि द्वित्वे पूर्वस्यात्वे रागमे धातोश्च रत्वे तन्निमित्त रागमलोपे पूर्वाकारदीर्घत्वे च आरत , चरीकृण्वत् , देधिन्वत् , दर्द शत् , दादत् । केचित्तु श्रौतेर्यङ्लप्यप्यादेशं नुप्रत्ययं चेच्छन्ति । शृणोति, कृवुधिवोस्तु चरीकृणोति देधिनोति इति रूपं मन्यन्ते-ते हि यलपि उप्रत्ययं वकारस्याकारन्तस्य 'प्रतः' इति लोपमकारस्य स्थानिवद्भावादुपान्त्यगुणाभावे मन्यन्ते । दामो मकारस्य निर्देशो दासंज्ञशङ्कानिवृत्त्यर्थश्च ।।१०८।
न्या० स०-श्रौतिकृ०-गुणो न भवतीति-न च वाच्यं विधानसामर्थ्याद् गुणो न स्यात् कुतः ? यतो यङ लुबन्तस्य पापेतीति वाक्ये शतरि गुणप्राप्ति स्ति, तत्र चरितार्थ विधानमत: स्वरान्तत्वेन प्रतिषिध्यते । आरदिति-अरर्तीति वाक्ये शतः । चरीकृण्वदितिचरकृणोतीति शतृः, वस्य ऊटि गुणे च वाक्यं, केचिदूटं नेच्छन्ति तन्मते चरीकर्तीति ।
देधिन्वदिति-अत्राप्यूटि गुणे च देधिनोतीति वाक्यं, मतान्तरे तु देधिन्तीति । दर्दशदिति-दर्दष्र्टीति शतृः । क्रमो दीर्घः परस्मै ॥ ४. २. १०१॥ मा