________________
१२२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-५०-५५
अनयोरुपान्त्यनकारस्य शवि परे लुग्भवति । दशति, सजति । तुदादावपठित्वानयोदिौ पाठः शवर्थः-तेन 'श्यशवः' (२-१-११५ ) इति नित्यमन्तादेशः सिद्धो भवति । दशन्ती, सजन्ती ॥४९॥
श्रकटघिनोश्च रजेः॥ ४. २. ५०॥
रजेरकटि घिनणि शवि च प्रत्यये उपान्त्यनकारस्य लुग भवति । रजकः, रागी, रजति । रजः, रजनिः, रजनम् रजतमित्यौणादिककित्प्रत्ययान्ताः ॥५०॥
णौ मृगरमणे ॥ ४. २. ५१ ।।
रजेरुपान्त्यनकारस्य णौ परे मृगाणां रमणे क्रीडायामर्थे लुग्भवति । रजयति मृगान्व्याधः। मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् , रञ्जयति सभां नटः ॥५१॥
न्या० स० णौ मृग०-मृगरमणादन्यत्रापि क्रश्चिदिच्छति, यथा राजर्षिकल्पो रजयति मनुष्यान् । रञ्जयति रजको वस्त्रमिति-रजति वस्त्रं रजकः, स एवं विवक्षते-नाऽहं रजामि, रज्यते वस्त्रं स्वयमेव तद्रज्यमानं प्रयुङ्क्ते, यद्वा रजति वर्णान्तरमापद्यते वस्त्रं कर्तृ तद्रजत् रजकः प्रयुङ क्ते णिग् ।
घत्रि भावकरणे ॥ ४. २. ५२ ।।
रजेरुपान्त्यनकारस्य भावकरणार्थे घनि परे लुग भवति । रञ्जनं रजत्यनेनेति वा रागः । घमि इति किम् ? रञ्जनम् । भावकरणे इति किम् ? रजन्त्यस्मिन्निति रङ्ग ॥५२॥
स्यदो जवे ॥ ४. २. ५३ ॥
स्यद इति स्यन्देपनि नलोपो वृद्ध्यभावश्च निपात्यते, जवे वेगेऽभिधेये । गोस्यवः, अश्वस्यवः । जव इति किम् ? घृतस्यन्वः तैलस्यन्दः ॥५३।।
दश-नावोदधौद्म-प्रश्रथ-हिमश्रथम् ॥ ४. २.५४ ॥
एते शब्दाः कृतनलोपादयो निपात्यन्ते । दशेरनटि अवपूर्वस्य उन्देः इन्धेश्च घनि उन्देर्मनि नलोपः प्रहिमपूर्वस्य श्रन्थेजि वृद्ध्यभावश्च निपात्यते । दशनम् , अवोदः, एधः, ओम, प्रधथः, हिमश्रथः ॥५४॥
न्या० स० दशनावो०-अवोद इति-अत्र गुणे कृते 'उपसर्गस्यानिणे.' १-२-१९ इत्यऽकारलोपः। यमि-रमि-नमि-गमि-हनि-मनि-वनति-तनादेघु टि क्ङिति
॥४. २. ५५ ॥