________________
१२० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-२, सूत्र-४१-४३
दुट क्विप्-दुषमाचष्टे दुषयति, पुणिग्रहणं निवृत्त्यर्थम् , उ ह्रस्वो न भवतीत्यन्ये, अदुदूषत् ।। ४० ॥
न्या० स०-ऊदुषो०-तत्प्रत्ययविज्ञानादिति-तस्य दुषेर्धातोः संबन्धी प्रत्ययस्तत्प्रत्ययः, दुषयतीत्यत्र तु न दुषिधातोः संबन्धी प्रत्ययः किं तहि 'णिज बहुलं नाम्न: कृगादिषु' ३-४-४२ णिज् नाम्नः परतो विहितत्वान्नामसंबन्धी, यद्वा तत्प्रत्ययस्येत्थंव्याख्यानात्तस्माद्धातोरनन्तरः प्रत्ययः ।
निवृत्त्यर्थमिति-तेन सामान्येन णौ भवतीति न तु ङ पर एवेत्यर्थः । न भवतीत्यन्ये इति-तन्मतसंग्रहार्थमूकारप्रश्लेषो विधेयः ।
अदुदूषदिति-दुष्यन्तं प्रायुक्त णिग् गुण ऊदुषा णौ ऊकारः ।
चित्ते वा ॥ ४. २. ४१ ॥
चित्तविषयस्य चित्तकर्तृ कस्य दुरुपान्त्यस्य णौ परे उद्वा भवति । चित्तं दुष्यति तदन्यः प्रयुङ्क्ते चित्तं दूषयति, चित्तं दोषयति, मनो दूषयति, मनो दोषयति । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञां दूषयति, प्रज्ञां दोषयति ।।४१।।
न्या० स०-चित्ते वा-प्रज्ञाया अपीति-चित्तसहचरितत्वात् प्रज्ञाऽपि चित्तमित्यर्थः ।
गोहः स्वरे॥४. २. ४२ ॥
कृतगुणस्य गुहेः स्वरादौ प्रत्यये परे उपान्त्यस्योद्भवति । निगृहति, निगृहयति, निगूहकः, साधुनिगृही, निगृहनिगृहम् , निजुगूह । गोह इति किम् ? निजुगुहतुः, निजुगुहुः । स्वर इति किम् ? निगोढा, निगोढुम् ।। ४२ ।।
भुवो वः परोक्षाद्यतन्योः॥ ४. २. ४३ ॥
भुवो वकारान्तस्य परोक्षाद्यतन्योः परतः उपान्त्यस्योद्भवति । बभूव, बभूवतुः, बभूवु, बभूविथ, बभूवुषः, बभूवुषा, प्रभूवन् , अभूवम् । वृद्धिगुणोवादेशेषु कृतेषु भुवो वकारान्तत्वम् । व इति किम् ? बभूवान् , प्रभूत् । अत्र भस्य माभूत् । परोक्षाद्यतन्योरिति किम् ? भविष्यति ।। ४३॥
न्या० स०-भुवो वः०-भुवो वकारान्तस्योति अत्र पूर्वसूत्रात्स्वरऽनुवर्त्य ततश्च परोक्षाद्यतन्योः स्वरे परे इति व्याख्याने स्वयमेव वकारान्तत्वं लप्स्यते किं वग्रहणेन ? उच्यते, यदि स्वरोऽनवर्त्यते तदा उत्तरसूत्रेऽनवर्तमानो दुनिवारः स्यात्तथा च स्रस्त इत्यादौ 'नो व्यञ्जनस्य' ४-२-४५ इति न लोपो न स्यात् , अत एव 'गमहन' ४-२-४४ इति सूत्रे स्वरग्रहणं, किं च वग्रहणाऽभावे बभूवेत्यादौ नित्यत्वादऽपवादत्वाच्च वृद्ध्यादिबाधया ऊकारोपान्त्यस्य भस्य ऊत्वप्रसङ्गः स्यादिति वग्रहणम् ।
प्रत्र भस्येति-उपान्त्यस्येत्यधिकारादित्यर्थः ।