________________
पाद-२, सूत्र-२८-३० ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
[ ११५
स्खदेर्घटादिपाठेन सिद्ध नियमार्थं वचनम् । अन्योपसर्गपूर्वस्य माभूव ,-प्रस्खादयति । अन्ये तु निषेधाधिकारे 'अपपरिस्खदः' इति पठित्वा पर्यपपूर्वस्य स्खनिषेधमिछन्ति-तन्मते परिस्खादयति, पर्यस्खादि, परिस्खादंपरिस्खादम् , एवमपस्खादयतीत्यादि । पर्यपाभ्यामन्यत्र प्रस्खदयति, प्रास्खादि, प्रास्खदि, इत्यादि भवति ॥२७॥
न्या० स०-पर्यपातस्खदः०-अन्योपसर्गपूर्वस्यति-अत्र विपरीतनियमो न भवति, 'एकोपसर्गस्य' ४-२-३४ इत्यत्र व्याप्त्या एकोपसर्गग्रहणेन परिच्छद इत्यत्र ह्रस्वविधानसामर्थ्यात् ।
शमोऽदर्शने ॥ ४. २. २८ ॥
अदर्शनेऽर्थे वर्तमानस्य शमेणौ परे ह्रस्वो भवति, जिणम्परे तु वा दीर्घः । शमयति रोगम् , निशमयति श्लोकान् , अशामि, अशमि, शामंशामम् , शमंशमम् । अदर्शन इति किम् ? निशामयति रूपम् , दर्शन एव केचिदिच्छन्ति, तेषामुदाहरणप्रत्युदाहरणयोविपर्ययः ।। २८ ॥
यमोऽपरिवेषणे णिचि च ॥ ४. २. २१ ॥
अपरिवेषणे वर्तमानस्य यमेणिच्यणिचि च णौ परे वा ह्रस्वो भवति, जिणम्परे तु णौ वा दीर्णः । यमयति, अयामि, अयमि, यामयामम् , यमंयमम् । अपरिवेषण इति किम् ? यामयति अतिथीन , यामयति चन्द्रमसम् । यमः परिवेषण इत्यन्ये-तन्मते उदाहरणप्रत्युदाहरणयोर्व्यत्यासः ।
_णाविति सिद्धे अस्य णिचि चेति वचनात् अन्येषां णिचि न भवति । स्थमिण वितर्के, स्यामयते, अस्यामि, स्यामस्यामम, शमिण-आलोचने, निशामयते, न्यशामि, निशामंनिशामम् ।। २६ ।।
न्या० स०-यमोऽपरिवेषणे-परिवेषणे इति-परिवेषणमिह भोजनविषयि परिवेषणं सूर्यादिवेष्टनं च गृह्यते । यामयत्यतिथीनिति-परिवेषणक्रियया तान् व्याप्नोतीत्यर्थः ।
णाविति सिद्ध इति-अधिकारानुमिते इत्यर्थः । मारण-तोषण-निशाने ज्ञश्च ॥ ४. २. ३० ॥
एष्वर्थेषु वर्तमानस्य जानाणिचि प्रणिचि च णौ ह्रस्वो भवति, भिणम्परे तु वा दीर्घः, चकारो णिचि चेत्यस्यानुकर्षणार्थः।।
मारणे-संज्ञपयति पशून ,-तोषणे, ज्ञपयति गुरून् , विज्ञपयति राजानम् , निशानेज्ञपयति शरान् , प्रज्ञपयति शस्त्रम् । अज्ञापि, अज्ञपि, ज्ञापंज्ञापं, ज्ञपंज्ञपम् । निशानं तेजनं तीक्ष्णीकरणम्-अन्ये तु निशामन इच्छन्ति । निशामनम् आलोचनं प्रणिधानमाहः, इह पूर्वत्र च सूत्रे णिचि अणिचि च णौ रूपसाम्येऽप्यर्थभेदः । एकत्र स्वार्थोऽन्यत्र प्रयोक्तृव्यापारः ।। ३०॥