________________
श्रर्हम्
|| श्रनंतलब्धिनिधानाय श्रीगौतमस्वामिने नमः ॥
। पूज्यपादाचार्यदेवश्रीमद् दान प्रेम-रामचन्द्र भद्र ङ्करसद्गुरुभ्यो नमः ।
कलिकालसर्वज्ञ-श्रीहेमचन्द्रसूरिभगवत्प्रणीतं
श्रीसिद्ध हेमचन्द्रशब्दानुशासनम् ।
[ स्वोपज्ञतत्त्वप्रकाशिकाभिधबृहद्वृत्ति मनीषिकनकप्रभसूरिविरचितन्याससारसमुद्धार (लघुन्यास)- संवलितम् ]
[ तृतीयाध्याये तृतीयपादः ]
तत्र
वृद्धिरारैदौत् । ३. ३. १ ॥
"
आकार आर् ऐकार, औकारश्च प्रत्येकं वृद्धिसंज्ञा भवन्ति । माष्टि, पाक्यम्, दाक्षिः; कारयति, कार्यम्, आर्षम्; नाययति, नायकः, ऐन्द्रम्; लावयति, लावकः, औपगवः । वृद्धिप्रदेशाः – “मृजोऽस्य वृद्धिः " [ ४. ३. ४२ ] इत्येवमादयः ॥ १ ॥
न्या० स० - वृद्धिरादत् - वृद्धिशब्दस्य संज्ञात्वात् अनुवादविधित्वेन ( विधेयत्वेन ) च परनिपातः प्राप्नोति । आरैदीदित्यनूद्य एते वृद्धिसंज्ञा भवन्तीति ह्यभिधीयते । सत्यम्, मङ्गलार्थं निपातः ।
नन्वाकारोदयो द्वेधा तद्भाविता अतद्भाविताश्च तद्भाविता वृद्धिसंज्ञया निष्पादिता; यथा - आश्वलायनः कार्त्तवीर्यः, ऐतिकायनः औपगवः इत्यादिषु । अतद्भाविता यथा - राजा, प्राच्छेयति, रैपात्रं, नौघोष इत्यादिषु । तत्र पूर्वेषामितरेतराश्रयदोषप्रसङ्गादितरेषु चरितार्थतया वृद्धिसंज्ञया न भाव्यमिति न वाच्यम् । सामान्येन भाविन्याः संज्ञाया आश्रयणात् नास्तीतरेतराश्रयप्रसङ्गो यथाऽस्य सूत्रस्य पटं वयेति । न चाकारादयः संज्ञा, वृद्धिशब्दः संज्ञीति विपर्ययोऽत्र युज्यते लाघवार्थत्वात् संज्ञाकरणस्य, न च समुदितानामारैदौतां संज्ञेयमिति वाच्यं 'वृद्धिर्यस्य स्वरेष्वादिः ६-१-८ इति दर्शनात् न च समुदाय आदिस्वरो भवति ।
"