________________
६१० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू० १३९-१४३.]
समस्ततहिते वा ॥ ३. २. १३६ ॥
सम्शब्दस्य तते हिते चोत्तरपदे लुगन्तादेशो वा भवति । सततम्, संततम्, सहितम्, संहितम् ।। १३६ ।।
तुमश्च मनःकामे ॥ ३. २. १४० ॥
तुम्प्रत्ययान्तस्य सम्शब्दस्य च प्रत्येकं मनसि कामे चोत्तरपदे 5 लुगन्तादेशो भवति । भोक्तुं मनोऽस्य भोक्तुमनाः, गन्तुं कामोऽस्य गन्तुकामः, सम्यग्मनोऽस्य समनाः, एवं सकामः । सहशब्देनापि सिद्धौ समः श्रुतिनिवृत्त्यर्थं वचनम् ।। १४० ॥
मांसस्यानधनि पचि नवा ॥ ३. २. १४१ ॥
मांसशब्दस्यानडन्ते घबन्ते च पचावुत्तरपदे लुगन्तादेशो वा भवति ।10 मांसस्य पचनं मांस्पचनम्, मांसपचनम्, मांस्पचनी, मांसपचनी, मांसस्य पाकः, मांस्पाकः, मांसपाकः । अनड्घजीति किम् ? मांसपक्तिः । पचाविति किम् ? मांसदाहः, मांसदहनी ॥ १४१ ।।
__ न्या० स०--मांसस्य०। मांस्पचनमिति अत्र प्रसिद्ध बहिरङ्गमन्तरङ्ग * इति न्यायादलोपस्यासिद्धत्वात सो रुन भवति, न तु 'स्वरस्य परे । ७.४.११०.] इति 15 स्थानित्वं । 'न संघि' [ १. ३. ५२.] इत्यनेनासविधौ स्थानित्वनिषेधात् ।। ३. २. १४१ ।।
दिकशब्दात्तीरस्य तारः ॥ ३. २. १४२ ॥
दिक्शब्दात्परस्य तीरशब्दस्योत्तरपदस्य तार इत्ययमादेशो वा भवति । दक्षिणस्या दिशः दक्षिणस्य वा देशस्य तीरं दक्षिणतारं, दक्षिणतीरम्-20 एवमुत्तरतारमुत्तरतीरम्, पश्चिमतारं पश्चिमतीरम्, पूर्वतारं, पूर्वतीरम्, । दिक्शब्दादिति किम् ? गङ्गातीरम् ।। १४२ ।।
न्या० स०-दिकशब्दा०। पश्चिमतारमिति स्त्रियां तु सर्वादित्वाभावात् पुभावाप्रवृत्ती पश्चिमातारं पश्चिमातीरमिति भवति ।। ३. २. १४२ ।। सहस्य सोन्याथें ॥ ३. २. १४३ ॥
. 25 अन्यार्थे अन्यपदार्थे बहुव्रीहौ समासे उत्तरपदे परे सहशब्दस्य स