________________
५६८ ],
बृहद्वृत्ति-लघुन्याससंवलिते
पा० २. सू० १०५-१०७.]
पिनष्टि उदपेषं पिनष्टि तगरम्, उदकं धीयतेऽस्मिन्निति उदधिः-घटः, वासउदकस्य वासः उदवासः, एवम्-उदवाहनः । अनामार्थं वचनम्, नाम्न्युत्तरेणैव सिद्धम् ।। १०४ ।।
न्या० स०--उदक० । उदवाहन इति उदकं वाहनमस्येति कार्यम् ।।३.२.१०४॥ वैकव्यञ्जने पूर्यं ॥ ३. २. १०५॥
उदकशब्दस्य पूरयितव्यवाचिन्येकव्यञ्जनेऽसंयुक्तव्यञ्जनादावुत्तरपदे उदादेशो वा भवति । उदकुम्भः, उदककुम्भः, उदघटः, उदकघटः, उदपात्रम्, उदकपात्रम् । व्यञ्जन इति किम् ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम् ? उदकपर्वतः, उदकदेशः ।। १०५ ।।
न्या० स०-वैकव्यञ्जने। उदकादिना द्रव्येण पूरयितव्यं घटादि पूर्य 10 तत्रोत्तरपदे इति वैयधिकरण्येन संबध्यते । पूर्ये यदुत्तरपदं वर्तते तस्मिन्निति ।।३.२.१०५।। मन्थोदनसक्तुबिन्दुवज्रभारहारवीवधगाहे वा
॥३. २. १०६॥ मन्थादिषुत्तरपदेषदकशब्दस्योदादेशो वा भवति । उदमन्थः उदकमन्थः, उदौदनः, उदकौदनः, उदसक्तुः, उदकसक्तुः, उदबिन्दुः, उदकबिन्दुः, उदवज्रः,15 उदकवज्रः, उदभारः, उदकभारः, उदहारः, उदकहारः, उदवीवधः, उदकवीवधः, उदगाहः, उदकगाहः, अपूर्यार्थो यत्नः ।। १०६ ।।
न्या० स०–मन्थोदन। उदमन्थ इति उदकेन मथ्यते कर्मणि घत्रि 'कारक कृता' [ ३. १. ६८.] इति समासः । उदौदन इति उदकेनोपसिक्त प्रोदनः, 'मयूरव्यंसक' [ ३. १. ११६. ] इति समासः । उपसिक्तक्रियायाश्च वृत्तावन्तर्भावादुदकोदनयो:20 सामर्थ्यम् । उदकवीवध इति वीवधशब्दोऽव्युत्पन्नः पथि पर्याहारे च वर्तते । 'हनो वा वध् च' [ ५. ३. ४६. ] इत्यऽलि वधादेशे बहुव्रीही बाहुलकाद् दीर्घत्वे वा वीवधः । ३. २. १०६ ॥
नाम्न्युत्तरपदस्य च ॥ ३. २. १०७ ॥ उदकशब्दस्य पूर्वपदस्योत्तरपदस्य च नाम्नि संज्ञायां विषये उद इत्यय-25