________________
[पा० २. सू० ८५-८६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५८६
. गतिकारकस्य नहितिवृषिष्यधिरुचिसहितनौ क्वौ
॥३. २. ८५॥ गतिसंज्ञस्य कारकवाचिनश्च नह्यादिषु क्विबन्तेषूत्तरपदेषु परेषु दीर्घोऽन्तादेशो भवति । उपनह्यति उपनद्यते वा उपानत्. परीणत्, वृत्,नीवृत्, उपावृत्, वृष,-प्रावृट्, परीवृट, व्यध्,-श्वावित्, मर्मावित्, रुच्,-नीरुक्, 5 अतीरुक्, अभीरुक्, सह-तुरासट, ऋतीषट्, भीरुष्ठानादित्वात् षत्वम्, जलासट, तन्,-परीतत्, ‘गमां क्वौ' [४. २. ५८.] इति नलोपः । गतिकारकस्येति किम् ? पटुरुक्, तिग्मरुक्, तीव्ररुक्, श्व तरुक्, कमलरुक् केचित्तु रुजाविच्छन्ति न रुचौ,-तेन रुजरुच्योर्मतभेदेन विकल्पः सिद्धः, रुज्,-निरुक्, नीरुक्, रुच्,-अतिरुक्, अतीरुक् । क्वाविति किम् ? उपनद्धम्, विततम् । इह क्विग्रह-10 णादन्यत्र धातुग्रहणे तदादिविधिर्लभ्यते, तेनायस्कृतम् अयस्कार इत्यादौ सकारः सिद्धो भवति, अन्यथा ह्ययस्कृदित्यत्रैव स्यात् ।। ८५ ।।
न्या० स०--गतिकारक०। प्रवर्षन्ति मेघा अस्यां अनटबाधकः 'क्रुत्संपदा' [५. ३. ११४.] इति क्विप् । तुरासडिति तुरेर्जुहोत्यादिपाठात् तुतोत्ति नाम्युपान्त्य' [५. १. ५४.] इति कः । तुरं सहति तुरासट् । तुरासाडिति तु छान्दसः । ऋतीषडिति15 अरणमृतिः पीडा तां सहते। पटुरुगित्यादि प्रत्यासत्त्या रुच्यादिक्रियापेक्षं कारकत्वं गृह्यते तेन पटवी तिग्मा तीव्रा श्वेता कमलेव रुग् यस्येत्येवं वर्ततइत्यादिक्रियापेक्षे कारकत्वे न भवति ।। ३.२.८५ ।।
घन्युपसर्गस्य बहुलम् ॥ ३. २. ८६ ॥
घबन्ते उत्तरपदे परे उपसर्गस्य बहुलं दीर्घोऽन्तादेशो भवति । नीक्लेदः,20 नीमेदः, नीमार्गः, नोवारः, प्रावारः, नीशारः, क्वचिन्न भवति-निषादः, विषदनं विषादः, प्रतपनं प्रतापः, प्रभावः, प्रभारः, प्रहारः, क्वचिद्विकल्पःप्रतीवेशः, प्रतिवेशः, प्रतीपादः २, प्रतीबोधः २, परीणामः २, प्रतीहारः २, प्रतीकारः २, अतीसारः २, वीसर्पः २, क्वचिद्विषयभेदेन-प्रासादो गृहम्, प्रसादोऽन्यः, प्राकारो वप्रः, प्रकारोऽन्यः, अपामार्ग औषधिः, अपमार्गोऽन्यः,25 नीहारो हिमम्, निहारोऽन्यः, परीरोधो मृगावरोधः, परिरोधोऽन्यः, परीहारो देशानुग्रहः, परिहारोऽन्यः, वीतंसः-पक्षिबन्धनम्, वितंसोऽन्यः। उपसर्गस्येति