________________
[पा० २. सू० ४२-४५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६३
ईषोमवरुणेऽग्नेः ॥ ३. २. ४२ ॥
वेदसहश्रतावायुदेवतानां द्वन्द्व षोमवरुणयोरुत्तरपदयोरग्निशब्दस्य ईकारान्तादेशो भवति, षोमेति निर्देशादीकारसंनियोगे षत्वं च निपात्यते । अग्नीषोमौ, अग्नीवरुणौ। षोमवरुणेति किम् ? अग्नेन्द्रौ। देवताद्द्व इत्येव ? अग्निसोमौ, माणवकौ, ईकारसंनियोगे विधानादिह षत्वमपि न 5 भवति ।। ४२ ॥
इव द्धिमत्यविष्णौ ॥ ३. २. ४३ ॥
विष्ण वजिते वृद्धिमत्युत्तरपदे परे देवताद्वद्वऽग्नेरिकारोऽन्तादेशो भवति, ईकाराकारयोरपवादः । अग्नीवरुणौ देवते अस्या आग्निवारुणीमनड्वाहोमालभेत, अग्नीषोमौ देवताऽस्य आग्निसौमं कर्म, एवमाग्निमारुतम् । 10 वृद्धिमतीति किम् ? अग्नीवरुणौ, अग्नीमरुतौ। आग्नेन्द्र कर्म, 'आतो नेन्द्रवरुणस्य' [७. ४. २६.] इति वृद्धिनिषेधः। अविष्णाविति किम् ? अग्नाविष्ण देवतास्य अग्नावैष्णवं चरु निर्वपेत् ।। ४३ ॥
न्या० स०--इर्वृद्धि। पत्र बहिरङ्गाऽपि लुप् अन्तरङ्गानपि विधीन् बाधते इति न्यायात् तद्धितोत्पत्तिभाविन्या लुपा बहिरङ्गयाऽन्तरङ्गा अपि दीर्घत्वादि-15 विधयो बाध्यन्ते। न चात्र वाच्यं वाक्यविभक्त रपि तहि लुबभावस्तदभावे हि तद्धितोत्पत्तिर्न स्यात् नाम्नो विधीयमानत्वेन वाक्यात् तद्धितस्यानुपपत्तेरिति ।। ३.२.४३ ॥
दिवो द्यावा ॥ ३. २. ४४ ॥
देवताद्वद्वे दिवशब्दस्योत्तरपदे परे द्यावा इत्ययमादेशो भवति । द्यौश्च भूमिश्च द्यावाभूमी, द्यावाक्ष्मे, द्यावानक्त-नक्तशब्दोऽकारान्तोऽप्यस्त्य-20 नव्ययम् ।। ४४ ।।
न्या० स०--दिवो द्यावा। द्यावाश्मे इति । पृषोदरादित्वादकारलोपे क्ष्मेति रूपम् ।। ३. २. ४४ ॥
दिवस्दिवः पृथिव्यां वा ॥ ३. २. ४५ ॥ दिव्शब्दस्य पृथिव्यामुत्तरपदे परे देवताद्वन्द्व दिवस् इति दिव25