________________
[पा० २. सू० २३-२४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५५५
10
सप्तम्याः कामशब्दादन्यस्मिन्नुत्तरपदे परे लुब् न भवति । कण्ठे कालोऽस्य कण्ठेकालः, उदरेमणिः, वहेगडुः, पुतेवलिः, उरसिलोमा, शिरसिशिखः । अमूर्धमस्तकादिति किम् ? मूर्धशिखः, मस्तकशिखः । स्वाङ्गादिति किम् ? अक्षशौण्डः, मुखपुरुषा शाला। अकाम इति किम् ? मुखकामः । अद्वयञ्जनादित्येव ? अङ्गुलिव्रणः, जङ्घावलिः । बहुलाधिकारात्करकमलम्, 5 गलरोगः, गलवणः, इत्यादि सिद्धम् ।। २२ ।।
न्या० स०-अमूर्ख। शब्दप्रधानो निर्देशो नाऽर्थप्रधान इति 'समानामर्थे' [ ३. १. ११८. ] इति नैकशेषः। वहेगडुरिति 'गड्वादिभ्यः' [ ३. १. १५६. ] इत्यनेन विकल्पितोऽपि बाहुलकात् नित्यं पूर्वनिपातः ।। ३. २. २२ ।।
बन्धे घनि नवा ॥ ३. २. २३ ॥
बन्धशब्दे घनन्ते उत्तरपदे परे अद्वयञ्जनान्तात्परस्याः सप्तम्या वा लुब् न भवति, स्वाङ्गादस्वाङ्गाच्चायं विकल्पः । हस्ते बन्धो हस्ते बन्धोऽस्येति वा हस्तेबन्धः, हस्तबन्धः, चक्रेबन्धः, चक्रबन्धः । बन्ध इति किम् ? पुटपाकः, मनोरागः । घनीति किम् ? अजन्ते माभूत्, बध्नातीति बन्धः चक्रबन्धः, हस्तबन्धः, चारकबन्धः । अद्व्यञ्जनादित्येव गुप्तिबन्धः,15 काराबन्धः ।। २३ ।।
न्या० स०-बन्धे घजि०। चकबन्धः, हस्तबन्ध इत्यादिष्वनेन सूत्रेण न भवति तर्हि मा भवतु 'तत्पुरुषे कृति' [३. २. २०.] इति अनेनालुप् कथं न भवति ? उच्यते, 'अद्व्यञ्जनात्' [ ३. २. १८. ] इत्यतः सूत्राद् बहुलमित्यनुवर्तते ततश्च तत्पुरुषे कृतीति बहुलमलुप् भवति ततश्चात्रालुप् न भवति, तर्हि अमूर्धमस्तकादित्यनेन सूत्रेणाऽलुप्20 कथं न भवति ? उच्यते, इदं सूत्रं न प्रवर्तते यत्र तत्पुरुषे कृतीति न प्राप्नोति, निषेधस्तत्रेदं प्रवर्तते । अत्र तु तत्पुरुषे निषेधस्ततश्च तेन बहुलं भवति । अतोऽलुप् न भवति ।। ३. २. २३ ॥
कालात्तनतरतमकाले ॥ ३. २. २४ ॥
अव्यञ्जनान्तात्कालवाचिनः शब्दात्परस्याः सप्तम्यास्तनतरतम-25 प्रत्ययेषु कालशब्दे चोत्तरपदे परे वा लुप् न भवति । तन,-पूर्वाह णेतनः, पूर्वाह णतनः, अपराह णेतनः,अपराह णतनः, तर-पूर्वाह णेतराम, पूर्वाह णतरे,