________________
५०० ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ११५.]
'पूर्वकालैकसर्वजरत्पुराणनवकेवलपूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरपूजार्थसन्महत्परमोत्तमोत्कृष्टा' इति, वृन्दारकनागकुञ्जरैरिति युवा खलतिपलितजरद्वलिनैरिति, कृत्यतुल्याख्यमजात्येति, कुमारः श्रमणादिनेति, पञ्चसूत्रीं विरचय्य तस्यामेव प्रथमान्तानां समावेशे परसूत्रनिर्दिष्टमेव प्रथमान्तं पूर्व निपतति, तृतीयान्तानां समावेशे परसूत्रनिर्दिष्टमेव तृतीयान्तं परं निपतति, 5 एकसूत्रोक्तानां तु प्रथमान्तानां तृतीयान्तानां च समावेशे पूर्वापरनिपाते कामचार इतीच्छन्ति,-प्रथमान्तसमावेशे, तुल्ययुवा, सदृशयुवा, कुमारपरमः, कुमारपरमा, कुमारसन्, कुमारसती। एवं महज्जघन्यप्रथमचरममध्यमध्यमादयोऽपि कुमारयुवा, कुमारतुल्यः, कुमारतुल्या। तृतीयान्तसमावेशे,वृन्दारकपलितः, वृन्दारकवलिनः, नागजरन्, वृन्दारकश्रमणा, खलतिश्रमरणा,10 वृन्दारकप्रव्रजिता, खलतिप्रव्रजिता, जरत्कुलटा, जरत्तापसी इत्यादि । श्रमणादीनां पुंलिङ्गत्वे त्वनियमः,-तेन वृन्दारकश्रमणः, श्रमणवृन्दारकः, नागतापसः, तापसनागः, कुञ्जरदासः, दासकुञ्जरः, तथा श्रमणखलतिः, खलतिश्रमणः । पलिततापसः तापसपलितः इत्यादि ।
अध्यायकादयस्तु लिङ्गान्तरेऽपि परनिपातना एव । वृन्दारकाध्यायकः । 15 वृन्दारिकाध्यायिका। खलत्यध्यायकः, खलत्यध्यायिका, पलिताभिरूपकः, पलिताभिरूपिका, एकसूत्रोक्तानां प्रथमान्तानां समावेशे,-प्रथमवीरः वीरप्रथमः, चरमजघन्यः जघन्यचरमः इत्यादि, तुल्यभोज्यः, भोज्यतुल्य इत्यादि । एकसूत्रे तृतीयान्तानां समावेशे,-खलतिपलितः, पलितखलतिः, जरद्वलिनः बलिनजरन् इत्यादि ।। ११५ ।।
20
न्या० स०-कुमारः। श्रमणेति श्रमं समस्तन्नयतीति डे 'पूर्वपदस्थात्' [२. ३. ६४.] इति संज्ञायां णत्वे श्राम्यतीति नन्द्यादित्वादने वा श्रमणा। कुलटेत्यत्र कुलात् कुलं चाटतीति कुलटा पृषोदरादिः । अभिरूपयत्यात्मानमिति के अभिरूपकः । ननु कुमारशब्दस्य पुलिङ्गस्य निर्देशात् कथं स्त्रीलिङ्गस्य समास ? इत्याह-नामग्रहरणे इत्यादि । हि शब्दोऽत्र यस्मादर्थे, यद्येवं नामग्रहणपरिभाषयैव स्त्रीलिङ्गेऽपि समासस्य25 सिद्धत्वात् किमर्थं स्त्रीलिङ्गानां श्रमणादीनां पाठः ? इत्याह-श्रमणादीनामित्यादि । कुमारशब्दस्येति 'विशेषणं' [ ३. १. ६६. ] इति समासे हि श्रमणादीनां पूर्वनिपातः स्यात् क्रियाशब्दत्वात् तेषां न कुमारशब्दस्य पूर्वनिपात इत्यर्थः ।। ३. १. ११५ ।।