________________
४५६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ४८.]
सप्तम्यन्तेनापि-प्रतिष्ठितमुरसि प्रत्युरसम् । गताद्या इति किम् ? वृक्षं । प्रति विद्योतते विद्युत्, साधुर्देवदत्तो मातरं प्रति । अन्य इत्येव । प्राचार्यको देशः । बहुवचनमाकृतिगणार्थम् ।। ४७ ।।
न्या० स०--प्रात्यवपरि०। गताद्यर्थेषु वर्तमाना इति अनेन प्रादीनां गम्यादिक्रियाविशिष्टसाधनेषु प्रवृत्तिर्वृत्तिविषये विज्ञायते, तत्रास्यास्मिन्नर्थे वृत्तिरिति विशेष- 5 निर्णयो लक्ष्यानुसारेण भवति, तत्राऽपि प्रयोगपर्यालोचनया विशिष्टार्थवृत्तित्वं प्रादीनां वाक्यराचष्टे । प्रगत प्राचार्य इत्यत्र वाक्ये प्रादेोतकत्वं गम्यमानप्रादेशप्रगतार्थस्य वाचकत्वं प्रार्थत्वाद् गतस्य प्राचार्यो देश इति न भवति । प्रान्तेवासीति अन्ते वसतीत्येवं व्रती 'व्रताभीक्ष्ण्ये' [ ५. १. १५७. ] णिन् ‘शयवासिवासेषु' [ ३. २. २५. ] इत्यलुप् । अनुलोम इति 'प्रत्यन्वव' [ ७. ३. ८२. ] इति अत् समासान्तः, 'नोपदस्य'10 [७. ४. ६१.] इत्यन्त्यस्वरादिलोपः । अन्तरङ्गुल इति 'संख्याव्ययादङ गुले' [ ७. ३. १२४. ] इति डः । प्रत्युरसमिति 'प्रत्युरसः' [ ७. ३. ८४. ] इत्यत् समासान्तः ।। ३. १. ४७ ।।
अव्ययं प्रवादिभिः ॥ ३. १. ४८ ॥
20
अव्ययं नाम प्रवृद्धादिभिर्नामभिनित्यं समस्यते, स च समासोऽन्य-15 स्तत्पुरुषसंज्ञो भवति । पुनःप्रवृद्धं बर्हिः, पुनरुत्स्यूतं वास:, पुननिष्क्रान्तो रथः, पुनरुक्त वचः, पुनर्नवं वयः, पुनःशृतं पयः, स्वर्यातः, अन्तर्भूतः, प्रातःसवनम्, उच्चै?षः, नीचैर्गतम्, अधस्पदम्, अनद्वापुरुषः, असशक्तः पुरुषः, प्रायश्चित्तम्, सद्यस्क्रीः, प्राग्वृत्तम्, पुराकल्पः, श्वःश्रेयसम्, श्वोवसीयसम् इति । बहुवचनमाकृतिगरणार्थम् ।। ४८ ।।
न्या० स०-अव्ययं प्र०। पुनः प्रवृद्धमिति कालवाचकात् पुनः शब्दात् 'कालाध्वभाव' [ २. २. २३. ] इति विकल्पेन द्वितीया सप्तमी वा सर्वत्र, पुनः प्रवर्द्धते स्मेति कार्य, न तु भूयः प्रवृद्धमिति तस्याप्यव्ययत्वादनेनैव नित्यसमासत्वात समदायस्येवाऽयं पर्यायो भवति, एवमुत्तरेष्वपि, श्राति श्रायति वा पयः स्वयमेव तद् श्रायद् वा चैत्रेण प्रयुज्यते स्म, ततः पुनः श्रप्यते स्म। अन्तर्भूत इत्यत्र अन्तःशब्देन25 मध्यस्थोऽप्युच्यते तदा प्रथमा। अधस्पदमिति अघस्थाने पदमित्येव कार्यं न त्वधस्तादिति तस्याप्यव्ययत्वात्, अनिर्णयोऽनद् वा तेन पुरुषः न विद्यते द्वा संशयोऽस्येति व्युत्पत्त्याद् वा धर्मी उच्यते, न अद्वा अनद् वा संशयितः पुरुषः ससंशयः पुरुषो वा अनद् वा पुरुषः। भ्रातुष्पुत्रकस्कादित्वात् सत्वे सद्यस्कोः। 'निसश्च श्रेयसः' [ ७. ३. १२२. ] इति