________________
[पा० १. सू० ३२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४४५
यावदमत्रमिति पूर्वार्थप्रधानत्वादव्ययत्वे सिः, अनव्ययत्वे तु जस् समासात् । यावद्दत्तमिति असमस्तमिदम्, अत एव तावदित्युपादीयते, समासे हि गुणीभूतत्वात्तावदित्यस्योपादानाभावः स्याद्यथा यावदमत्रमित्यत्र ।। ३. १. ३१ ।।
पर्यपाबहिरच पञ्चम्या ॥३. १. ३२ ॥
पर्यादीनि नामानि पञ्चम्यन्तेन नाम्ना सहैकार्थ्ये पूर्वपदार्थेऽभिधेये 5 समस्यन्ते स च समासोऽव्ययीभावसंज्ञो भवति । परि त्रिगर्तेभ्यः परित्रिगर्तम्, अपत्रिगर्तेभ्यः अपत्रिगर्तम्, प्रा ग्रामात् प्राग्रामम्, बहिर्गामात् बहिर्गामम्, प्राग् ग्रामात् प्राग्रामम्, प्रत्यग्ग्रामात् प्रत्यग्ग्रामम्, अपाग्ग्रामात् अपारग्रामम्, उदग् ग्रामात् उदग्ग्रामम् वृष्टो मेघः । पर्यादिसाहचर्यादञ्चतिथूनलुबन्तोऽव्ययं गृह्यते, तेनेह न भवति-प्राङ् ग्रामात् चैत्रः । प्रतिपदविहितायाश्च पञ्चम्या 10 ग्रहणादिहाव्ययीभावो न भवति-अपगतः शाखायाः अपशाखः । पञ्चम्येति किम् ? परि वृक्षं विद्योतते विद्युत्, यदत्र मां परि स्यात् ।। ३२ ।।
न्या० स०-पर्ययाङ । पञ्चम्या प्रहणादिति ननु पञ्चमीग्रहणं किमर्थं तदन्तरेणाऽपि विशिष्टपञ्चमीप्रतिपत्तेस्तथाहि- अपपरिशब्दो परस्परसाहचर्याद् वर्जनाथौं ग्रहीष्येते, तद्योगे च पञ्चम्येव विहिता, आङ शब्दोऽपि ङिदत्रोपात्तः, वाक्यस्मरणयोस्तु15 ङित्त्वाभावादीषदादिषु चतुर्वर्थेषु वर्तमानो ग्राह्यः, तत्रापीषदर्थ 'पाङल्पे' [३. १. ४६.] इति परत्वात्तत्पुरुषविधानात् पारिशेष्यान्मर्यादाभिविध्यर्थवृत्तेर्ग्रहणम्, बहिर्गतो ग्रामादित्यादावपादानपञ्चम्यन्तादसामर्थ्यान्न भविष्यति ।प्राग्ग्राम इत्यादौ च पूर्वपदार्थप्राधान्य एव सति संभवेऽव्ययीभावस्य विधानात् समासाभाव इति पञ्चम्यन्तेनैव समासस्य सिद्धत्वात् किं तदुपादानेनेति अत आह- पञ्चम्येति किमिति 'लक्षणवीप्स्येत्थंभूते'20 [ २. २. ३६ ] इत्यधिकृत्य 'भागिनि च' [२. २. ३७] इत्यनेन परियोगे द्वितीया, तया सह माभदित्यर्थः। अथात्र वर्जनार्थपरिग्रहणाच्च न भविष्यतीति चेतहि न्यायानवादकमेव पञ्चमीग्रहणं भवति ।
परित्रिगर्त्तमिति पञ्चम्यर्थप्रधानात् प्रथमा, क्रियाविशेषणत्वविवक्षायां तु द्वितीया यथा आमेखलं संचरतामित्यत्र एवं सर्वत्र । प्राङ ग्रामाच्चैत्र इति यदा गमनार्थस्याञ्चते:25 क्विपि कर्मणि षष्ठी तदा प्राङ ग्रामस्येत्यपि प्रयोगो भवति, कोऽर्थः ? गच्छन्ग्राममित्यर्थः । प्रतिपदविहितायाश्चेति लक्षणप्रतिपदोक्तयोरिति न्यायात् । अपशाख इति न च वाच्यं शाखाया अपेन सह संबन्धाभावादेव न भविष्यति समासः, यतो गतार्थस्यापेनैवाभिधानादस्त्यपेन शाखायाः संबन्ध इति, न च परत्वात् 'प्रात्यव' [ ३. १. ४७ ] इति तत्पुरुषणास्य बाधा इति वाच्यं, तत्रान्यग्रहणात् ।। ३. १.३२ ।।
30