________________
१२ ]
बृहद्वृत्ति-लवुन्याससंवलिते
[पा० १. मू० ११-१३.]
बहुव्रीहिः समुदायस्यावयवेषु समवेतत्वात्, न्यग्भूतावयवत्वेन च समुदायप्राधान्यादेकवचनम् । संज्ञिसामानाधिकरण्येऽपि स्मृतयः प्रमाणम्'इतिवदाविष्टलिङ्गत्वा व्यञ्जनमिति नपूसकत्वम् । व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम्, स्वराणामर्थप्रकाशने उपकारकम्, यथा-सूपादीन्योदनस्येति । कस्य आदिः कादिरिति व्याख्याने व्यवस्थावाच्यप्यादिशब्द:, तेन स्वराणां न व्यञ्जनसंज्ञा, अनुस्वारविसर्गयोस्तु भवति । ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां 5 संस्कर्तेत्यत्रानुस्वाररूपव्यञ्जनात् परस्य सस्य "धूटो धूटि स्वे वा" [ १.३.४८.] इत्यनेन लुक् सिद्धः । विसर्गस्य तु व्यञ्जनत्वे सुपूर्वस्य दुःखयतेः क्विपि, णिलुकि, सेश्च लुकि "पदस्य" [२. १. ८६.] इति विसर्गरूपसंयोगान्तस्थस्य खस्य लुक् सिद्धः; विसर्गस्य च कस्यादिरिति व्युत्पत्त्या अपञ्चमान्तस्थः० [ १. १. ११. ] इति धुट्त्वे च "धुटस्तृतीयः" [ २. १. ७६. ] इति स्थान्यासन्ने गत्वे सति सुदुगिति सिद्धम् ।। १० ।।
10
अपञ्चमान्तस्थो धुद ॥ १. १. ११ ॥
वर्गपञ्चमान्तस्थावर्जितः कादिनर्णो धुट्संज्ञो भवति । क ख ग घ, च छ ज झ, ट ठ ड ढ, त थ द ध, प फ ब भ, श ष स ह । धुटप्रदेशा:-"धुटो धुटि स्वे वा" [१. ३. ४८.] इत्यादयः ।। ११ ।।
15
पञ्चको वर्गः ॥ १. १. १२ ॥
कादिषु वर्णेषु यो यः पञ्चसंख्यापरिमाणो वर्गः स स वर्गसंज्ञो भवति । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न प फ ब भ म । वर्गप्रदेशाः-"कवर्गकस्वरवति" [२. ३. ७६.] इत्यादयः ॥ १२ ॥
न्या० स०–पञ्चक-सजातीयसमुदायो वर्गः । स च वर्गः कवर्गादिभेदेनाष्टधा वर्णसमाम्नाये केवलिकादिशास्त्रेषु प्रसिद्धः, तत्र च यः पञ्चसंख्यात्वेन व्यवस्थित-20 स्तस्येह वर्गसंज्ञेत्यत आह-कादिष्विति । यो य इति-संज्ञिनां बहुत्वादगृहीतवीप्सोऽपि पञ्चशब्दो वीप्सां गमयतीति । वृणोत्यात्मीयमेकत्वेन व्यवस्थापयति “गम्यमि०" [उणा० ६२.] इति गे वर्ग:, जात्यपेक्षमेकवचनम् ।। १२ ।।
आद्यद्वितीयशषसा अघोषाः ॥ १. १. १३ ॥
वर्गाणामाद्य-द्वितीया वर्णाः श-ष-साश्चाघोषसंज्ञा भवन्ति । क ख, च25 छ, ट ठ, त थ, प फ, श ष स । बहुवचनं सर्नवर्गाणामाद्य-द्वितीयपरिग्रहार्थम् । अघोषप्रदेशा-"अघोषे प्रथमोऽशिट:" [१. ३. ५०.] इत्यादयः ॥ १३ ॥