________________
३२४ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० ३. सू० ४७-४८.]
सय-सितस्य ॥ २. ३. ४७ ॥
परि-नि-विभ्यः परयोः सय-सितयोः सकारस्य षो भवति । परिषयः, निषयः, विषयः; परिषितः, निषितः, विषितः; सय इति सिनोतेरलन्तस्याजन्तस्य घान्तस्य वा, सित इति क्तान्तस्य रूपम् । स्यतेर्वा नियमार्थं-परिनिविपरस्यैव क्तान्तस्य स्यतेर्यथा स्यादिति, तेनोपसर्गान्तरपूर्वस्य "उपसर्गात् सुग्०" 5 [२. ३. ३६.] इत्यादिनापि न भवति; तेन-प्रतिसितः निःसितः, इत्यादि सिद्धम् । योगविभागाद् द्वित्वेऽपि अटयपीति निवृत्तम्, तेन-मा विषसयदित्यत्र द्वित्वे सति पूर्वेण व्यवधानादुत्तरस्य न भवति, पूर्वस्य त्वव्यवहितत्वाद् भवत्येव-व्यसयीयत्, पर्यसितायत । कथं मा परिषिषयत् ? द्वित्वे सति उपसर्गात् परस्य पूर्वस्यानेन षत्वम्, उत्तरस्य तु “नाम्यन्तस्था०" [२. ३. १५] 10 इत्यादिनेति न दोषः ।। ४७ ॥
न्या० स०--सय-सित। स्यतेर्वा नियमार्थमिति-उद्योतकरस्त्वाह-सिनोतेरेव ग्रहणं न्याय्यं सयेत्यनेन साहचर्यात्, किञ्च स्यतिग्रहणे नियमार्थता जायते, सिनोतिग्रहणे त विध्यर्थतापि स्यादिति, यतो विधि-नियमसम्भवे च विधिरेव ज्यायान। न च वाच्यमेकेनैव सितग्रहणेन स्यति-सिनोत्युभयस्य उपादानात् विध्यर्थता नियमार्थतापि स्यादिति,15 यतोऽर्थेकत्वादेकवाक्यमिति केषाञ्चिद् वाक्यलक्षणम्, अर्थकत्वाच्च सयसित इति वाक्यसमाप्तौ स्यतिग्रहणार्थं वाक्यान्तरं करणीयं भवतीति सिनोतेरेव ग्रहणम् । मा विषसयदिति-विषमाख्यत् “णिज् बहुलम्०" [३. ४. ४२.] अत्र द्वित्वे कर्तव्ये "रणषमसत्" [२. १. ६०.] इत्यनेन षत्वनिवृत्तौ “अन्यस्य" [४. १.८.] इति द्विवचनम् । व्यसयीयदिति-विषयमैच्छत् क्यनि ईः। पर्यसितायतेति-परिषित इवाचरत् क्यङ20 "दीर्घश्च्वि०" [४. ३. १०८.] इति दीर्घः ।। २. ३. ४७ ।।
असो-ड-सिवू-सह-स्सटाम् ॥ २. ३. ४८ ॥
परि-नि-विभ्यः परस्य सिवू-सहोर्धात्वोः स्सडागमस्य च संबन्धिनः सकारस्य षो भवति, न चेत् सिवसहौ सो-ङविषयौ भवतः । परिषीव्यति, निषीव्यति, विषीव्यति; परिषहते, निषहते, विषहते; परिष्करोति, विष्करः25 शकुनिः; नेस्तु परः सड् नास्तीति नोदाह्रियते । असोडेति किम् ? परिसोढः; परिसोढव्यः; निसोढः, निसोढव्यः ; विसोढः, विसोढव्यः; डे-मा परिसीषिवत्, मा परिसीषहत् ; मूलधातोस्तु षत्वं भवत्येव । सोप्रतिषेधस्तु सहेरेव न