________________
[ पा० २. सू० ८५-८६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
न्या० स० -- द्विषो वाऽतृशः । विकल्पोऽयमिति श्रन्ये तु संबन्धविवक्षायामेवेयं षष्ठीति प्रतियन्तः सूत्रं नारभन्ते, एवं - " वा क्लीबे" [ २. २. २. ] इत्यपि ।। २. २. ८४ ।
वैकत्र द्वयोः ॥ २. २. ८५ ॥
द्विकर्मकेषु धातुषु द्वयोः कर्मणोरेकत्रैकतरस्मिन् वा षष्ठी भवति, अन्यत्र पूर्वेण नित्यमेव । प्रजाया नेता त्र ुघ्नम्, अजाया नेता त्र ुघ्नस्य, 5 अथवा-अजां नेता स्र ुघ्नस्य, अजाया नेता त्रघ्नस्य पयसो दोहको गाम्, पयसो दोहको गोः; यदि वा गोर्दोहकः पयः, गोर्दोहकः पयसः । अन्ये तु नीवह्यादीनां द्विकर्मकारणां गौणे कर्मरिण, दुहादीनां तु प्रधाने विकल्पमिच्छन्ति ; उभयत्राऽपि नित्यमेवेत्यन्ये ।। ८५ ।।
[ २७७
न्या० स० - वैकत्र० । द्वयोः कर्मणोरिति ननु कृत इत्यस्यैव षष्ठ्यन्तस्य 10 द्वयोरिति कस्मान्न विशेषणम् ?, तत्रापि हि द्वयोः कृदन्तयोरेकं यत् कर्म तत्र षष्ठी वा भवतीत्ययं सूत्रार्थो घटते, तथा च प्रपां स्रष्टा भेत्ता च मैत्र इत्यादावेव विकल्पः स्यादिति, नैवम् एवं सति "कर्मरिण कृतो द्वयोश्च वा" इत्येकमेव योगं कुर्यात्, एवं च सति एकस्य कृतः कर्मरिण नित्यं षष्ठी भवति, द्वयोस्तु कृदन्तयोर्वा भवतीति सूत्रार्थे समस्तार्थस्य सिद्धत्वात्, तस्मात् पृथग्योगात् कर्मण एव विशेषणं न कृत इत्यस्य 115 अन्यत्रेति यतः “कर्मरिण कृतः” [ २. २. ८३ ] इत्यनेन द्वयोरपि कर्मणोः षष्ठी प्राप्ता पक्षेऽनेन निषिध्यते । अजाया नेता त्रघ्नमिति - एकत्रेति सामान्येन निर्देशात् प्रधानाप्रधानकर्मणोरविशेषेण ग्रहणमित्युभयत्रैवोदाहरति । ननु कर्मणीत्यधिकृतत्वादेकशब्दस्य च द्वितीयसव्यपेक्षत्वात् एकत्रेत्युक्तेऽपि द्वयोः कर्मणोरेकतरस्मिन्निति गम्यत एव किं द्वयोरित्यनेन ? नैवम् - एवं सति प्रधानाप्रधानसंनिधौ प्रधाने कार्य संप्रत्ययः * इति20 न्यायात् प्रधान एव कर्मरिण स्यात्; यद्वा गौणादित्यधिकारात कर्मापेक्षयापि गुणकर्मण्येव स्यादिति द्वयोरपि प्रधानाप्रधानकर्मणोः पर्यायेण षष्ठीविकल्पार्थं द्वयोरित्युपादानमित्यदोषः ।। २. २. ८५ ।।
कर्तरि ॥ २.२.८६ ॥
भवत 25
कृदन्तस्य कर्तरि गौणान्नाम्नः षष्ठी भवति, तृतीयाऽपवादः । प्रासिका, भवत: शायिका, भवतः स्वाप:, भवत प्रासना, भवतोऽग्रगामिका | कर्तरीति किम् ? गृहे शायिका । कृत इत्येव - त्वया शय्यते ।। ८६ ।।