________________
[पा० २. सू० २३.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २२७
व्यवस्थितविभाषेयं, तेन क्वचित् कर्मसंज्ञैव क्वचिदाधारसंज्ञैव भवतिकल्याणेऽभिनिविशते, या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते, एतेषां शब्दानामेतेष्वर्थेष्वभिनिविष्टानाम्, अर्थेऽभिनिविष्टः ।। २२ ।।
न्या० स०--वाऽभिनि० । अभिः पूर्वो यस्मान्न: सोऽभिपूर्वश्चासौ निश्च-अभिनिः, ततः परो विट, तस्य, "मयूरव्यंसक०" [३. १. ११६.] इति पूर्व-परयोर्लोपः; अभेनिस्तेन 5 युक्तो विट्, इति वा; न तु द्वन्द्वः, अभिश्च निश्चेत्येवंरूपे द्वन्द्वे ह्यभि-निशब्दयोः प्रत्येकमभिसम्बन्धः स्यात्, यथा-"उपान्वध्याङ वसः” [ २. २. २१. ] इत्यत्र । व्यवस्थितविभाषेयमिति-नात्र वाशब्दो विकल्पार्थो येन समकक्षतया द्वितीयासप्तम्यौ, कि तहि ? प्रयोगव्यवस्थयेति ।। २. २. २२ ।।
10
काला-8व भाव-देशं वाsकर्म चाकर्मणाम्
॥२. २. २३ ॥
कालो-मुहूर्तादिः, अध्वा-गन्तव्यं क्षेत्रं क्रोशादि, भावः-क्रिया गोदोहादिः, देशो-जनपद-ग्रामनदी-पर्वतादिः; अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्मसंज्ञो वा भवति, अकर्म च-यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञाऽपि वा भवतीत्यर्थः । काल:--मासमास्ते, मास प्रास्यते; संवत्सरं15 स्वपिति, संवत्सरः सुप्यते; दिवसं शेते, दिवसः शय्यते; अध्वा-क्रोशं स्वपिति, क्रोशः सुप्यते; योजनमास्ते, योजनमास्यते; भावः-गोदोहमास्ते, गोदोह प्रास्यते; पोदनपाकं शेते, प्रोदनपाकः शय्यते ; देश:-कुरून् प्रास्ते, कुरव प्रास्यन्ते ; ग्रामं वसति, ग्राम उष्यते । अविवक्षितकर्माण: सकर्मका अप्यकर्मका:-मासं पचति, मासः पच्यते; क्रोशमधीते, क्रोशोऽधीयते ; 20 प्रोदनपाकं पठति, प्रोदनपाकः पठ्यते; कुरून् पठति, कुरवः पठ्यन्ते; पक्षेरात्रौ सुप्यते, रात्रौ नृत्तं च द्रक्ष्यसि, क्रोशे सुप्यते, गोदोहे आस्ते, प्रोदनपाके स्वपिति, पञ्चालेषु वसति, ग्रामे वसति, ग्रामे वासः, ग्रामे वासी, तथारात्रावधीतम्, दिवसे भुक्तम् । काला-ऽध्व-भाव-देशमिति किम् ? प्रासादे आस्ते, शय्यायां शेते। अकर्म चेति किम् ? मासमास्यते, क्रोशं सुप्यते,25 गोदोहमासितः, इदं गोदोहमासितम्, गोदोहमास्यते, कुरून् सुप्यते; एषु "तत् साप्यानाप्या०” [३. ३. २१. ] इति, “गत्यर्था-ऽकर्मक-पिब-भुजेः"