________________
२१० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० २.]
।
प्रवृत्तौ च निवृत्तौ च, कारकाणां य ईश्वरः। अप्रयुक्तः प्रयुक्तो वा, स कर्ता फलसाधकः ।। ३ ॥
तेन कादि कारकसंज्ञमिति विशेषण-विशेष्यभाव उपपद्यत इति, अन्यथा वृक्षो वृक्षसंज्ञ इतिवदनुपपन्नः स्यादिति । तच्च द्रव्याणामिति-द्रव्याणां सामर्थ्य कारकमिति सम्बन्धः, द्रव्यस्य तु कारकत्वे प्रतिबन्धकमन्त्रादिसन्निधाना-ऽसन्निधानाभ्यां दहनादेर्दाहादि-5 क्रियोत्पत्त्यनुत्पत्ती न स्याताम्, तत्स्वरूपस्य सर्वदा विद्यमानत्वादुत्पत्तिरेव स्यात्, तस्माच्छक्तिरेव कारकमिति श्रेयः, चैत्रादेस्तु कारकत्वं शक्ति-शक्तिमतोरभेदनयेन । स्वपराश्रयेति-अयमर्थः-त्रयी क्रिया, सा च चैत्र प्रास्त इति स्वाश्रिता, कटं करोतीति पराश्रिता, अन्योऽन्यमाश्लिष्यत इत्युभयाश्रिता। शक्तिरिह द्रव्यस्य धर्मः, तस्य चतुष्टयी गतिः-कश्चित् सहभूर्यावद्रव्यभावी च, यथा स्फटिकर
सूवर्णस्य पीतत्वम् १,10 कश्चित् सहभूरयावद्दव्यभावी, यथा-अपक्वघटे श्यामिका २, कश्चिदसहभूर्यावद्रव्यभावी, यथा-तस्यैव घटस्य पाकजा रूपादयः, यथा-लाक्षारक्तस्य कम्बलस्य रागः ३, कश्चिदसहभूरयाव द्रव्यभावी, यथा-मेषयोः सयोगः, यथा-पटे हरिद्रारागः ४ । क्रियाकाल इतिक्रियायाः शक्ति प्रति ज्ञापकः कालः, तत्र क्रियाकाले समवहितसकलोपकरणे शक्तिरभिव्यज्यते-प्रकटीक्रियते-अवगता भवति । अभिव्यज्यत इति कर्मणि कर्तृकर्मरिण वा,15 तथाहि-क्रियया का शक्तिः प्रकाश्यते-प्रकटीक्रियते, अभिव्यनक्ति-प्रकटीकरोति क्रिया क/ शक्ति, सैवं विवक्ष्यते,-नाहमभिव्यनज्मि स्वयमेवाभिव्यज्यते शक्तिः। अन्वर्थसंज्ञासमाश्रयणाच्चेति-चकार एवार्थे । हेत्वादेरित्यादिशब्दात सम्बन्धस्य सहार्थस्य चाकारकत्वं, तेन विद्ययोषित इत्यादौ “कारकं कृता" [ ३. १. ६८. ] इति न समासः, बहूनामिदं वस्त्रमित्यादौ “बह्वल्पार्थ०" [७. २. १५०.] इति शस् नाभूत् ।। २. २. १ ।। 20
स्वतन्त्रः कर्ता ॥ २. २. २ ॥
क्रियाहेतुभूतो यः क्रियासिद्धावपरायत्ततया प्राधान्येन विवक्ष्यते स कारकविशेषः कर्तृ संज्ञो भवति । देवदत्तः पचति, जिनदत्तेन कृतम्, स्थाली पचति, चौरस्य रुजति रोगः, प्रेषितः करोति; अस्य च कर्तु रधिश्रयणादयः पचिक्रियायामवान्तरव्यापारा भवन्ति, एतान् कुर्वन् देवदत्तः पचतीत्युच्यते ।25 प्रयोजकोऽपि कर्तव-पचन्तं देवदत्तं प्रयुक्त-देवदत्तेन पाचयति चैत्रः । अत्र स्वशब्द अात्मवचनः, तन्त्रशब्दः प्रधानार्थः, स्वं तन्त्रमस्य स्वतन्त्र प्रात्मप्रधानः । किं पुनः कारकान्तरेभ्यः कर्तुः प्राधान्यम् ?, यत् करणादीनि प्रयुक्त, न तैः प्रयुज्यते; तानि न्यत्करोति, न तैय॑त्क्रियते; तानि निर्वर्तयति, न तैनिर्वय॑ते; तानि प्रतिनिधत्ते, न तैः प्रतिनिधीयते; तेभ्यः स प्रथममात्मलाभं लभते, न30