________________
[ पा० १. सू० ११७ - ११८.]
सीव्यन्ती स्त्री कुले वा; भवन्ती, चोरयन्ती स्त्री कुले वा; धारयन्ती शास्त्रं स्त्री कुले वा । श्य-शव इति किम् ? चरती स्त्री कुले वा । ई -ङयोरित्येवदीव्यता, भवता ॥। ११६ ।।
२०८ ]
बृहद्वृत्ति - लघुन्याससंवलिते
दिव और सौ ॥ २. १. ११७ ॥
दिवोऽन्तस्य सौ परे प्रर्भवति । द्यौः, प्रियद्यौः, हे द्यौः !, प्रतिद्यौः ! | 5 *निरनुबन्धग्रहणे न सानुबन्धकस्य इति धातोर्न भवति - प्रक्षैर्दीव्यति क्विप् ऊट् - अक्षद्यूः । साविति किम् ? दिवं पश्य । द्यामिति तु द्योशब्दस्य "आ अम् - शसोऽता” [१. ४. ७५. ] इत्याकारे रूपम् ।। ११७ ।।
न्या० स० - दिव प्रौः सौ । द्यौरिति प्रत्र “उ: पदान्ते० " [२. १. ११८. ] इति प्राप्तेऽप्यचरितार्थत्वात् साविति विशेषविधानाद् वा श्ररेवानेन प्रवर्तते न तूकार: 110 दिव प्रौकारेण सम्बन्धात् सेः परत्वमात्रविज्ञानात् तत्सम्बन्धिन्यन्यसम्बन्धिन्यप्युदाहरतिप्रियद्यौरित्यादि । प्रक्षद्य रिति एकदेशविकृतम् ० इति प्राप्ति: ।। २.१. ११७ ।।
उपदान्तेऽभूत् ॥ २. १. ११८ ॥
पदान्ते वर्तमानस्य दिवोऽन्तस्योकारादेशो भवति स चानूत्-तस्य तूकारस्य दीर्घत्वं न भवतीत्यर्थः । द्युभ्याम्, द्युभिः, द्युभ्यः, द्युषु प्रतिद्युभ्याम्, 15 परमद्युभ्याम्, द्युगतः, द्युकामः, द्युत्वम्, द्युकल्पः, विमलद्यु दिनम् । पदान्त इति किम् ? दिव्यति, दिव्यम्, दिवौ, दिवम्, दिवि । अनूदिति किम् ? अद्यौद्यौर्भवति - द्युभवतीत्यत्र " दीर्घश्चियङ्यक्येषु च " [४. ३. १०८. ] इत्यनेन च्वौ दीर्घत्वं न भवति । ऊकारस्य प्रतिषेधाद् वृद्धिर्भवत्येव - द्युकामस्यापत्यं द्यौकामिः । दिवाश्रयः, दिवौकस इति तु पृषोदरादित्वादकारागमे भविष्यति, 20 वृत्तिविषये वाऽकारान्तो दिवशब्दोऽस्ति ।। ११८ ।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः समाप्तः ।।
प्राड् जातेति हे भूपाः, मा स्म त्यजत काननम् । हरिः शेतेऽत्र न त्वेषो, मूलराजमहीपतिः ।
25