________________
१७६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० १. सू० ६२.]
न्या० स०--क्तादेशोऽषि । ककारेण उपलक्षितस्तः क्त इति व्युत्पत्तिकरणात् क्त-क्तवतु-क्ति-क्त्वानां ग्रहणं सिद्धं, ककारोपलक्षितस्य तकारस्य सर्वेष्वेषु विद्यमानत्वात् । परे कार्ये इति-परत्वमेतत्सूत्रापेक्षं विज्ञायते, न क्तादेशविधायकसूत्रापेक्षम्, अषीति प्रतिषेधात्, एतत्सूत्रापेक्षे हि परत्वे “यज-सृज०" [२. १. ८७.] इति षत्वमपि परम्, तस्मिन्नप्यसत्त्वे प्राप्त ऽषोति प्रतिषेधो युज्यते । क्षामिमानिति-क्षामस्यापत्यम् "अत इञ्" 5 [ ६. १. ३१. ] ततो मतुः, यद्वा क्षामोऽस्यास्ति इन्, ततः क्षाम्यत्राऽस्ति मतुः । लन्युः, पून्युरिति-लूनं पूनं चेच्छति क्यन् "क्यनि" [४. ३. ११२.] इति ईकारः, ततो ङस् ; यदापि लवनं-लूनिः, तामिच्छति या स्त्री क्यन् लूनीयतीत्यादिप्रक्रिया क्रियते, तदापि ग्रामणीशब्दवद् विशेषेण नित्यस्त्रीत्वाभावाद् “योऽनेकस्वरस्य" [२. १. ५६.] इति यत्वे लून्युः, पून्युरित्येव भवति; यदा तु लूनिमिच्छति यः पुमान् इत्यादि क्रियते, तदा यो10 लूनिशब्द: स्त्रीलिङ्गः स ईदन्तो न भवति, यस्तु क्यन्नन्तः स ईदन्तः स न स्त्रीलिङ्ग इति "स्त्रोदूतः" [१. ४. २६.] इत्यस्य प्राप्तिरेव नास्तीति यत्वे-लून्युः, पून्युरित्येव; यदा तु क्त्यन्तादेव ङस् तदा स्त्रिया ङितां वा [१. ४. २८.] इति दासि तत्पक्षे तु “ङित्यदिति" [१. ४. २३.] इत्येत्वे लून्या लूनेरिति रूपद्वयम् । ननु अषीति किमर्थं ? यतः षत्वरूपे परे कार्ये कर्तव्ये क्तादेशस्याऽसत्त्वं प्राप्तमनेन निषिध्यते, तच्च 'परे कार्ये' इति भणनान्न15 प्राप्नोति, णत्व-षत्वयोः पूर्वसूत्रे ग्रहणादिति, सत्यम्-अत एव प्रतिषेधात् पूर्वत्र णत्वसहचरितं सप्तमपादनिर्दिष्टं षत्वं गृह्यते, तेन अद्राक्षीदित्यादि सिद्धम्, अन्यथा यदि पूर्वसूत्रे सामान्येन षत्वमङ्गीक्रियते तदाऽत्र “ष-ढोः कस्सि" [२. १. ६२.] इति परे कार्ये कर्तव्ये षत्वस्याऽसत्त्वात् कत्वं न स्यादिति । मग्न इति-"मस्जेः सः" [४. ४. ११०.] इति सस्य नः, “नो व्यञ्जन०” [ ४. २. ४५. ] इति लुप् ।। २. १. ६१ ।।
20
ष-ढो कः सि ॥२. १. ६२ ॥
षकार-ढकारयोः स्थाने सकारे परे ककार आदेशो भवति । पिष्पेक्ष्यति, पिपिक्षति; दृश्-अद्राक्षीत् ; सृज्-अस्राक्षीत् ; यज्-अयाक्षीत् । ढ-लिह-लेक्ष्यति, लिलिक्षति; वह -वक्ष्यति; गुहौ-निघोक्ष्यति । सीति किम् ? पिनष्टि । 'असत् परे' इत्यधिकाराद् निघोक्ष्यतीत्यत्र ढस्थानस्य25 ककारस्यासत्त्वाच्चतुर्थान्तलक्षण आदेश्चतुर्थो भवति ।। ६२ ।।
न्या० स०-ष-ढोः कस्सि। निघोक्ष्यति स्यतिप्रत्यये गुणे "हो धुट्-पदान्ते" [ २. १. ८२.] इति ढत्वे नित्यस्यापि कादेशस्य परेऽसत्त्वात् “ग-ड-द-बादे:०" [२. १. ७७.] इत्यादेश्चतुर्थत्वे ततोऽनेन कत्वं सिद्धम् । कश्चिच्छासेरपि सौ विकल्पेन ककारमिच्छति, तन्मते-शाक्षि, शास्सि ।। २. १. ६२।।।
30