________________
[पा० १. सू० ४५-४६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १६७
असकौ; हे असुक !, हे असकौ !; असुका, असकौ स्त्री। केचित् तु . 'असुकस्' इति सान्तं सिना सह निपातयन्ति ।। ४४ ॥
न्या० स०--असुको०। असुक इति-पत्र परत्वान्नित्यत्वाच्च "अन्वादे:०" [१. ४. ६०.] इति बाधित्वा सस्य "पा द्वेरः" [ २. १. ४१. ] "लुगस्या." [२. १. ११३. ] इत्यलोपः, सो रुः। केचित् त्वसुकसिति-तन्मते संबोधने स्त्रियां च 'असुक:' 5 इति विसर्गान्त एव, स्वमते तु स्त्रियाऽसुका इति, स्त्रीसंबोधने तु हे असुके ! इति ।। २. १. ४४ ॥
मोवर्णस्य ॥ २. १. ४५ ॥
अवर्णान्तस्य त्यदादिसंबन्धिनोऽदसो दकारस्य मकार आदेशो भवति । अमू नरौ, स्त्रियौ, कुले वा; अमी नराः, अमूः स्त्रियः, अमूनि कुलानि; 10 अमु नरम्, अमू स्त्रियम्, अमः स्त्रीः, अमून् नरान्, अमूनि कुलानि; अमुकौ नरौ, अमुके स्त्रियौ कुले वा; परमामुम्; अमूदृक्, अमूदृशः, अमूदृक्षः, अत्र "अन्य-त्यदादेराः" [३. २. १५२.] इत्यात्वे सत्यवर्णान्तत्वम् । अवर्णस्येति किम् ? अदः कुलम्, अदस्यति ।। ४५ ॥
न्या० स०--मोऽवर्णस्य । ननु अदः कुलमिच्छतीत्यस्मिन् वाक्ये अदस्शब्दान-15 पुसकादमो लुपि “सो रुः" [ २. १. ७२. ] इति रुत्वे “रोर्यः" [ १. ३. २६. ] इति यत्वे “स्वरे वा" [ १. ३. २४. ] इति यलोपेऽवर्णान्तत्वान्मत्वप्रसङ्ग इति, सत्यम्पदान्तरापेक्षत्वेन यलोपस्य बहिरङ्गत्वात् तदनपेक्षत्वेन मत्वविधरन्तरङ्गत्वाद् प्रसिद्धं बहिरङ्गम् इति लोपस्यासिद्धत्वेऽनवर्णान्तत्वाद् मकाराभावः ।। २. १. ४५ ।।
वाद्री ॥ २. १. ४६ ॥
20 अदसोऽद्रावन्ते सति दकारस्य मकारो वा भवति । द्वावत्र दकारौ तत्र विकल्पे सति चातूरूप्यं भवति-अदमुयङ्, अमुद्यङ्, अमुमुयङ्, अदाङ्; तदाह--
"परतः केचिदिच्छन्ति, केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति, केचिदिच्छन्ति नोभयोः ।। ४६ ।।" 25 न्या० स०--वाद्रौ। अदसोऽवयवस्याऽद्यागमस्य तद्ग्रहणेन ग्रहणात् तस्मिन्