________________
[पा० १. सू० २६-३०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १५७
इत्यत्रामन्त्र्यस्य पदस्यादिभूतस्य सत्त्वात् त्वादेश: प्रसज्यतेऽतो द्विवचनमदात् सूरिः । देशनाकाल इति-देशनं देशस्तं करोति "णिज् बहुलम् ०" [३. ४. ४२.] देश्यते इति 'णिवेत्त्यास०' [ ५. ३. १११. ] इत्यनः ।। २८ ।।
चाहहवैवयोगे ॥ २. १. २६ ॥
'च अह ह वा एव' इत्येतैर्योगे-सम्बन्धे पदात् परयोर्युष्मदस्मदोर्यदुक्तं 5 वस्नसादि तन्न भवति । ज्ञानं युष्मांश्च रक्षतु, अस्मांश्च रक्षतु; ज्ञानं युष्मानह रक्षतु, अस्मानह रक्षतु; ज्ञानं युष्मान् ह रक्षतु, अस्मान् ह रक्षतु; ज्ञानं युष्मान् वा रक्षतु, अस्मान् वा रक्षतु; ज्ञानं युष्मानेव रक्षतु, अस्मानेव रक्षतु; ज्ञानं युष्मभ्यं च दीयते, अस्मभ्यं च दीयते; ज्ञानं युष्माकं च स्वम्, अस्माकं च स्वम् ; ज्ञानं युवां च रक्षतु, ज्ञानमावां च रक्षतु; ज्ञानं युवाभ्यां च10 दीयते, आवाभ्यां च दीयते; ज्ञानं युवयोश्च स्वम् ; आवयोश्च स्वम् ; ज्ञानं त्वां च रक्षतु, मां च रक्षतु; ज्ञानं तुभ्यं च दीयते, मह्य च दीयते; ज्ञानं तव च स्वम्, मम च स्वम् । योगग्रहणं किम् ? ज्ञानं च शीलं च वो रक्षतु, नो रक्षतु; ज्ञानं च शीलं च वां दीयते, नौ दीयते; ज्ञानं च शीलं च ते स्वम्, मे स्वम् ; ज्ञानं च शीलं च त्वा रक्षतु, मा रक्षतु; ज्ञानं च ते स्वम्, ज्ञानं च मे स्वम् ; 15 नैतेषु चशब्देन युष्मदस्मदोर्योगोऽपि तु ज्ञान-शीलयोः । “चाहवैवैः' इत्येव सिद्धे योगग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम् ।। २६ ।।
न्या० स०--चाहहेत्यादि । योग इति-चादिद्योत्यसमुच्चयाद्यर्थस्य साक्षाद् युष्मदस्मदर्थसम्बन्ध इत्यर्थः, ज्ञानं च शीलं चेत्यत्र चशब्देन ज्ञानशीलयोः सद्वितीयता द्योत्यते न तु युष्मदस्मदर्थयोरिति । योगग्रहणमिति-अयमर्थ:-योगग्रहणं विना अर्थात् प्रकरणा20 वा चादिषु गम्यमानेष्वपि स्यादिति ।। २६ ।। .
दृश्यर्थै श्चिन्तायाम् ॥ २. १. ३० ॥
दृशिना समानार्था दृश्यर्थाः, तैर्धातुभिश्चिन्तायां वर्तमानोगे युष्मदस्मदोर्यदुक्त वस्नसादि तन्न भवति । जनो युष्मान् संदृश्यागतः, जनोऽस्मान् संदृश्यागतः; जनो युवां समीक्ष्यागतः, जन आवां समीक्ष्यागतः; जनस्त्वा-25 मपेक्षते, जनो मामपेक्षते; ज्ञानं युष्मभ्यं दीयमानमुत्पश्यति, ज्ञानमस्मभ्यं दीयमानमुत्पश्यति; ज्ञानं युवाभ्यां दीयमानं निरूपयति, ज्ञानमावाभ्यां दीयमानं