________________
२२६
दत्तक या गोद
[चौथा प्रकरण
पुराणे-दत्ताद्या अपि तनया निजगोत्रेण संस्कृताः । प्रायांति पुत्रतां सम्यगन्यवीजसमुद्भवाः । पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथवीपते । श्राचूड़ान्तं न पुत्रः सः पुत्रतां यान्ति चान्यत इति । चाइया यदि संस्कारा निजगोत्रेण वैकृताः। दत्ताद्यास्तनयास्तस्युरन्यथा दास उच्यते । ऊर्ध्वन्तु पञ्चमादर्षात् न दत्ताधाःसुतानृप । गृहीत्वा पञ्चवर्षीयं पुत्रोष्ठी प्रथमं चरेत्। . अकृत जातकर्माद्यसम्भवे कथमित्यत आह । चूड़ाद्या यदीति यदि चूड़ायाः संस्कारा निजगोत्रेण प्रतिगृहीत गोत्रणं कृता वै शवोऽवधारणे तदेव दत्ताद्यास्तनयाः स्युरन्यवा ते दासाः उच्यते इति । चूड़ाद्या येषां ते तथेति ननुचूड़ाद्या प्राद्या इति पूर्वेण पौनरुक्त्यापातात्। अनेन जातकर्माद्यन्नप्राशनान्तानां जनकगोत्रेणानुष्ठानऽपि न विरोधः । तथाच अकृत जातकर्मादिमुख्यः अकृत चूड़ोनुकल्प इति सिध्यति । दत्ताद्या इत्यादि पदेन कृत्तिमादि गृहणमित्युक्तमेव तेषामपि संस्कारैरेव पुत्रत्वं न परिग्रहमात्रेण अन्यथा दास उच्यते इति विपक्ष वाधकात् । अन्यथा चूड़ायकरणे कृत चूड़ादि परिग्रहे वा दासता भवति ननु पुत्रत्वमित्यर्थः। अस्य पुत्रत्वस्य यूपत्वादिवत् संस्कार जनयत्वात् । असंस्कृतः पुत्री कार्य इति स्थितम् । असंस्कृतोऽपि पञ्चमादृवं न ग्राह्यः कालाभावेन पुत्रत्वानुपपत्तेः । अनेन पञ्चमवर्षाणि पुत्रपरिग्रह कालः इत्युक्तं भवति तदव्यतिरेकेणाभिधानन्तु पञ्चमाअन्ना गौणोऽपिकालो नास्तीति । प्रतिपादनाय अन्यथा स्वकालादुत्तरः कालो गौणः सर्वः प्रकातित इति । न्यापेन