________________
दत्तक या गोद
[ चौथा प्रकरण
न सापिण्ड्यं विधीयत इत्यसापिण्ड्यस्य पुत्रीकरणे सापिण्ड्यं च प्रतिग्रहीतुः पाञ्चपौरुषम् निषिध्यते असमानगोत्रस्य पुत्रीकरणे गोत्ररिक्थे जनयितुर्नभजेद्दत्रिमः सुत इतिमानवम् दत्तक्रीतादि पुत्राणाँ बीजबप्तुः सपिण्डता । पंचमी सहमी तद्वत्रं तत्पालकस्यचेति, बृहन्मानवं वचः प्रमाणम् । सोयं मुख्यः कल्पः तदसंभवैनुकल्पमाह तद्भावे ऽसपिण्डेवेति । तेषां सपिण्डा नाम भावेऽसपिण्डोऽपि पुत्री - कार्यः । 'असपिण्डाः' सप्तमपुरुष बहिर्भूताः प्रसवन्धिनश्च तेsपि द्विविधा समानगोत्रा समानगोश्चेति । तदयं निर्गलितोर्थः समानगोत्रः सपिण्डो मुख्यः तद्भावेऽसमाऩगोत्रः सपिण्डः । यद्यप्यऽसमान गोत्रः सपिण्डः समानगोत्रोऽसपिण्डश्चेत्युभावपि तुल्यकक्षौ एकैक विशेषण राहित्यादुभ योस्तथापि गोत्रप्रवर्तक पुरुषात् सपिण्ड प्रवर्तक पुरुषस्य सन्निहितत्वेनाभ्यर्हितत्वम् । तेन चासमानगोत्रोऽपि सपिण्ड एव ग्राह्यो मातामह कुलीनः सर्वथा सपिण्डाऽभावेऽसपिण्डस्तत्रापि सोदकः प्राचतुर्दशात् समानगोत्रः प्रत्यासन्नः । तस्याऽभावे असमानोदकः सगोत्रएकविंशात् । तस्याऽप्यभावे
समान गोत्रो सपिण्डश्वेति । अत्र च पूर्वपूर्वस्य प्रत्यासत्यतिशयेन निर्देश इति । तदेवाह वशिष्ठः - अदृर दूवान्धव बन्धुसन्निकृष्टमेव प्रतिगृन्हीया दिति श्रस्यार्थः - अदृरश्वासौ बान्धवश्चेत्यदृरबांधवः सन्निहितः सपिण्ड इत्यर्थः । सान्निध्यंच द्विधा सगोत्रतया स्वल्पपुरुषान्तरेण च भवति । तत्र सगोत्रः स्वल्पपुरुषान्तरः सपिण्डो मुख्यः तदभावे बहुपुरुषान्तरोपि
२१८