________________
दफा १७५]
साधारण नियम
२१७
सपिण्ड और असपिण्ड
दफा १७५ सपिण्ड और असपिण्ड . 'सपिण्डेषु' सप्तमपुरुषावधिकेषु सपिण्डेष्विति सामान्यश्रवणात समानाऽसमान गोत्रेष्विति गम्यते । तत्र सामानगोत्रतायां । सगोत्रेषु कृतायेस्युर्दत्तक्रीतादयः सुताः, विधिनागोत्रतां यांति न सपिण्डं विधीयते ; इति वृद्धगौतमीयं वचनं प्रमाणं । दत्तक मीमांसायाम् । 'सपिण्डेषु' सप्तम पुरुषावधिकेषु सपिण्डता तु पुरुषे सतमे विनिवर्तत इत्यायुक्तेषु इत्यर्थः । सामान्यश्रवणादिति सगोत्रत्वाविशेषादित्यर्थः 'समानगोत्राः' भ्रातृपुत्रादयः 'असमानगोत्राः दौहित मातृष्वस्रयादयः । सगोत्रेष्विति । न सापिण्ड्यं न साप्त पौरुष पिण्डलेपान्वयरूपं यावन्तः पितृवर्गाः स्युरित्यनेन तस्य पिण्डान्वयरूप त्रैयौरुषिक सापिण्ड्यस्य वक्षमानत्वात् । प्रमात्रमित्यस्य समानगोत्रतायामित्यनेवान्वयः । विधिनेति । वाक्य मात्रस्य सावसारणत्वात्-इतिबालसंबोधनी टीकायाम् ।
_ 'गोत्रतां' सन्ततित्वम् दत्ताद्या अपि तनया निज गोत्रेण संस्कृताः । प्रायान्ति पुत्रतां सम्यगन्यवीज समु. द्भवा । इति कालिका पुराणात् । संतति गोत्रजनन कुलान्यभिजनान्वयाविति त्रिकाण्डी स्मरणात् । न तु गोत्रतापदेन गोत्रसंबंधो विधीयते सगोत्रेष्वेव पुत्रीकरणेन तस्य साहजिकतया विधानायोगात् ।