________________
सिद्धान्त-लक्षण जागदीशी ।
विवृतिः
प्रतियोगिव्यधिकरणस्य – महानसीयव्यक्तिर्नास्ति, तादृशे च महानसे तादृशपर्वतीयव्यक्तिर्नास्तीत्याद्यभावस्य - प्रतियोगितावच्छेदकीभूतं यन्महानसीयव्यक्तित्वादिकं, तदवच्छिन्नत्वस्य सर्वास्वेव साध्यरूपासु वह्निव्यक्तिषु सत्त्वात् कस्यामपि वह्नि - व्यक्तौ तदवच्छिन्नभिन्नत्वासत्त्वेनाव्याप्तिः स्यादतः प्रतियोगितानवच्छेदकत्वानुसरणम् एवञ्च तादृशतत्तद्व्यक्त्यभावीयप्रतियोगितावच्छेदकं यत्तत्तद्व्यक्तित्वं तद्भिनत्वस्य वह्नित्वरूपे साध्यतावच्छेदके सत्त्वान्नाव्याप्तिः ।
"
नच प्रतियोगितावच्छेदकावच्छिन्नभिन्नत्वोक्तावपि तत्तद्व्यक्तिस्वावच्छिन्नभिन्नत्वस्य व्यक्त्यन्तरीभूते वह्निरूपे साध्ये सत्त्वात्कुतोऽव्याप्तिरिति वाच्यम् । धूमवान् वह्नेरित्यादौ वह्निसमानाधिकरण- घटाद्यभाव-प्रतियोगितावच्छेदकीभूतघटत्वाद्यवच्छिन्नभिन्नत्वस्य साध्ये धूमे सत्त्वादतिव्याप्तिरतस्तद्वारणाय तादृशाभावप्रतियोगितावच्छेदकावच्छिन्नत्वावच्छिन्नभिन्नत्त्वस्यैव निवेशनीयतया वह्निमान्
धूमादित्यत्र तादृशतत्तद्व्यक्त्यभावमादायाऽव्याप्तेरुपपादयितुं शक्यत्वात् ।
केचित्तु — ह्नित्वावच्छिन्नस्येत्यादिना वह्निमान् धूमादित्यन्नाव्याप्तिर्नाभिहिता, तत्र तत्तद्व्यक्तित्वनिष्ठस्वरूपसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकाभावस्य साध्यतावच्छेदकता घट की भूतसमवायसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकत्वाभावेन लक्षणाघटकत्वात् अपि तु वह्नित्वावच्छिन्नवान् धूमादित्यत्रैवाव्याप्तिर्ग्रन्थकाराभिप्रेता, तत्र तत्तद्व्यक्त्यभावस्य स्वरूपसम्बन्धावच्छिन्नतत्तद्वयक्तित्वनिष्ठावच्छेदकताकप्रतियोगिताकतया लक्षणघटकत्वादिति वदन्ति ॥
वह्नि - द्रव्यत्वान्यतरवान् धूमादित्यत्र सर्वास्वेव वह्निव्यक्तिषु निरुक्तक्रमेण तत्तद्व्यक्त्यभावप्रतियोगितावच्छेदकावच्छिन्नत्वसत्वेऽपि तादृशप्रतियोगितावच्छेदकावच्छिन्नभिन्न द्रव्यत्वरूपसाध्य सामानाधिकरण्यस्य धूमे सत्त्वादव्याप्त्यसम्भवाद्धूमादिमन्निष्ठाभावप्रतियोगितावच्छेदकीभूततत्तद्व्यक्तित्वावच्छिन्नत्वं नाव्याप्तिप्रयोजकमतः सर्वस्यैव वह्नेरित्यनुक्त्वा वह्नित्वावच्छिन्नस्येत्युक्तम् । तथा च वह्नित्वावच्छिन्नस्येत्यादिप्रन्थेन वह्नित्वमात्रधर्मेण साध्यतास्थल एवाव्याप्तेरभिहितत्वात् तादृशान्यतरसाध्यकस्थलेऽव्याप्तिविरहेऽपि न क्षतिः ।
"
"
"
एवं वह्निमान् महानसीयधूमादित्यत्र महानसीयधूमाधिकरणे वर्त्तमानस्य पर्वतीयव्यक्त्यभावादेः प्रतियोगितावच्छेदकी भूतपर्वतीयव्यक्तित्वाद्यवच्छिन्नभिन्नत्वस्य महान सीयवह्निव्यक्तिरूपे साध्ये सत्त्वाद्वह्नित्वावच्छिन्नस्य धूमादिमन्निष्ठाभावप्रतियोगितावच्छेदकीभूततत्तद्वयक्तित्वावच्छिन्नत्वं नाव्याप्तिप्रयोजकमतः सर्वस्यैवेत्युक्तं, तथाच वह्निमान् महानसीयधूमादित्यत्र सकलवह्वयन्तर्गतमहानसीयवह्नौ तादृशपर्वतीयव्यक्तिर्नास्तीत्य भावप्रतियोगितावच्छेदकावच्छिन्न त्वविरहेण निखिल