________________
काली-शङ्करी-विवेचना।
कथमुभयानवच्छिन्नमिति केचिदत्र वदन्ति-साध्यतावच्छेदकनिष्ठावच्छेदकता, तदि. तरनिष्टावच्छेदकता-एतदुभयानिरूपकत्वस्य प्रतियोगितायां निविष्टत्वात् । तदुभया. निरूपकत्वस्योभयत्वपर्याप्त्यधिकरणानिरूपकत्वमर्थः । न च पर्याप्तः प्रत्येकमपि स्वीकारेण एकस्या अप्यवच्छेदकताया उभयत्वपर्याप्त्यधिकरणत्वात् यथोक्तोऽर्थोकिञ्चित्कर इति वाच्यम् । साध्यतावच्छेदकनिष्ठावच्छेदकत्वनिरूपकत्वं, यच्च तदि. तरनिष्ठावच्छेदकतानिरूपकत्वमेतदुभयत्वपर्याप्तावच्छेदकताकाभावस्य तदर्थत्वात् । ___ न च तथापि महानसीयवह्निमान् धूमादित्यादावतिव्याप्तिः । तत्र वह्नित्वस्य पारिभाषिकावच्छेदकेतरत्वसम्भवेन महानसीयवह्विनिष्ठप्रतियोगितायां तमिरूपक. त्वद्वयाभावासत्त्वादिति वाच्यम् । साध्यसाधनभेदेन व्याप्तेर्भेदात् । प्रमेयसाध्यता. वच्छेदककस्थल एव पारिभाषिकस्य कर्तव्यत्वादन्यत्र यथोक्तस्यैव निविष्टत्वात् ।
न चैवं रीत्या लाघवानुसन्धाने वह्निमान् धूमादित्यादौ उभयानवच्छिन्नत्वविशेषणमेव दीया, किं साध्यतावच्छेदकेत्यादिगुरुतरविशेषणेनेति वाच्यम् । इष्टत्वात् ।
केचित्त प्रमेयसाध्यतावच्छेदककस्थलेऽप्रसिद्ध्याशङ्कनं तद्वारणप्रयासश्च द्वयमेव ग्रन्थकृतो मनस्यभिप्रेतम् , न चेत्यादिपाठस्तु काल्पनिकः ।
न च तदनुपपत्तेः का गतिरिति वाच्यम् । दीधितिकृन्मते सखण्डस्य साध्यतावच्छेदकत्वमेव नास्ति, दण्ड्यादौ साध्ये इत्यादिग्रन्थेन तथोक्तत्वात् । इत्थं च यथोक्तस्थले परम्परासम्बन्धेन प्रमेयत्वस्य साध्यतावच्छेदकरवेनानुपपत्तेरभावादि. त्याहुः ॥ १९ ॥
साध्यतावच्छेदकातिरिक्तसाध्यवृत्तिधर्मानवच्छिन्नत्वनिवेशकल्पे अनवच्छेद. कत्वपर्यन्तानुधावनस्य वैयर्थ्यापत्त्या प्रमेयसाध्यकस्थलेऽव्याप्तेश्चेति दूषितमिति छ ।
अत्र केचित्-पूर्वदोष इष्टापत्तेरपरो दोषो वक्तव्यस्तथा च विषयितासम्बन्धेन प्रमेयत्वविशिष्टाभावमादाय गगनाभावादिप्रमेय एवाप्रतियोगित्वसम्भवेन लक्षणः समन्वयसम्भवः । एतत्कल्पे साध्यतावच्छेदकताघटकसम्बन्धेनावच्छेदकताया निष्प्रयोजकत्वेनाप्रवेशादिति पूर्वपक्षयन्ति ।
तन्न । प्रमेयसाध्यकस्थले तत्प्रमेयानुयोगिकस्वरूपसम्बन्धन प्रमेयत्वविशिष्टस्य चालनीन्यायेनाभावमादायैतदनुयोरिकेन कालिकादिना, समवायेन वा वह्विस्ववि. शिष्टाभावमादाय वह्निमान् धूमादित्यादौः चाव्याप्तिवारणाय एतत्कल्पे साध्यताव. च्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकताया निविष्टत्वात् ।
विशेषरूपेण संसर्गतानभ्युपगमे तादात्म्येन कालिकविषयितान्यतरसम्बन्धेन गुणत्वविशिष्टस्य गुणस्य साध्यतायां संयोगनित्यज्ञानान्यतरत्वादावव्याप्तिस्तत्र नित्यज्ञानरूपहेत्वधिकरणे कालिकेन गुणत्ववतोऽभावस्य, संयोगरूपहेत्वधिकरणे च विषयितया गुणत्ववतोऽभावस्य धर्तव्यत्वेनाव्याप्त्यापत्तः। . . .
१७