________________
काली- शङ्करी- विवेचना ।
* अथ
साध्यवद्वत्त्यभावीय साध्यतावच्छेदकनिष्ठावच्छेदकत्वानिरूपितत्वस्य प्रतियोगितायां निवेशादेव सामञ्जस्ये, प्रतियोगितायां तादृशोभयानवच्छिन्नत्वस्य, शुद्धसाध्यतावच्छेदकस्थलेऽवच्छेदकतायां निरवच्छिन्नत्वस्य, विशिष्टसाध्यतावच्छेदकस्थले तादृशोभयानवच्छिन्नत्वस्य च वैफल्यमिति । [ जा० १६-२४ पृ० ] न च प्रमेयसाध्यतावच्छेदककस्थले तादृशप्रतियोगित्वाप्रसिद्धिरिति वाच्यम् । विशिष्टसाध्यतावच्छेदककस्थले तादृशोभयानवच्छिन्नत्वमवच्छेदकतायामनिवेश्य
२५३
प्रागुक्तरीत्या सावच्छिन्नावच्छेदकत्वीय स्वरूपसम्बन्धेन साध्यवद्वृत्त्यभावीयसाध्यतावच्छेदकनिष्ठावच्छेदकत्वानिरूपक प्रतियोगिताकाभावीय प्रतियोगितावच्छेदकत्वाभावस्य साध्यतावच्छेदके विवक्षणात् । तत्र घटाभावीय घटनिष्ठप्रतियोगित्वस्यैव तादृशस्य सम्भवात् घटत्वस्य निरवच्छिन्नावच्छेदकत्वसम्भवात् ।
न च तद्रूपवान् तद्रसादित्यादौ साध्यवद्वत्यभावीय साध्यतावच्छेदक्रनिष्ठाव च्छेदकत्वाप्रसिच्याऽव्याप्तिरिति वाच्यम् । पूर्वक्षणवृत्तित्वविशिष्टतद्रूपाभावप्रतियोगि• तावच्छेदकत्वस्य तथाविधस्य सौलभ्यात् ।
वस्तुतस्तु विषयितासम्बन्धेन तद्रूपत्ववज्ज्ञानाभावीयावच्छेदकतायाः प्रसिद्धि - सम्भवात् ।
एतेन अन्त्य शब्दस्य, क्षणिकपदार्थस्य वा साध्यतायां सतावपि नाव्याप्तिः, तत्र विशिष्टाभावासम्भवेऽपि उक्तरीत्यैव प्रसिद्धिसम्भवात् ।
इत्थं चावच्छेदकतायां साध्यतावच्छेदकता घटकसम्बन्धावच्छिन्नत्वस्य, व्याप्यवृत्तिसाध्यकस्थले प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्य च निवेशोऽपि विफल इत्यतीव लाघवमिति ।
न चैवं संयोगी सत्त्वादित्यादावतिव्याप्तिः, संयोगाभावस्याव्याप्यष्टत्तित्वेन साध्यवद्वृत्तित्वादिति वाच्यम्, साध्यवन्निरवच्छिन्नवृत्तिकत्वस्याभावे निवेशितत्वेन तत्र साध्याभावप्रतियोगिताया लक्षणघटकत्वसम्भवात् एतदेव प्रतियोगिवैयधिकरण्यस्य सार्थक्यम्, अन्यथा संयोगी द्रव्यत्वादित्यादावव्याप्तिः ।
न च संयोगाभावस्य संयोगाभावत्वेन साध्यवनिरूप्रितसावच्छिन्नवृत्तिकत्वेsपि अभावत्वादिना, प्रमेयत्वादिना वा निरवच्छिन्नवृत्ति मत्त्वादुक्तातिव्याप्तितादवस्थ्यमिति वाच्यम् । साध्यवन्निरूपितावच्छिन्नवृत्तिकान्याभावस्य निवेशितत्वात् । न च वह्निमान् धूमादित्यादौ महानसीयवन्ह्यभावादेरपि कालिकेनाव्याप्यवृत्तित्वेन तादृशप्रतियोगित्वाप्रसिद्धिरिति वाच्यम् । अभावीय विशेषणताविशेषावच्छिन्न साध्यवन्निरूपितावच्छिन्नटत्तिकान्यत्वस्य विवक्षितत्वादिति चेत्, -
अत्र वदन्ति -
संयोगी द्रव्यत्वादित्यादावव्याप्तिः, तत्र कपिसंयोगाभावस्याव्याप्यवृत्तित्वेन