________________
काली-शङ्करी-विवेचना ।
૨૫૨
अथ साध्यवद्वत्त्यभावीयत्व,साध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्वोभया. भावविशिष्टहेतुमन्निष्ठाभावप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विवक्षितत्वात् साध्यतावच्छेदकतदितरेत्याद्यवच्छेदकतायां निरवच्छिन्नत्वं, यद्रूपेण साध्यता. वच्छेदकत्वं, तत्तदितरोभयानवच्छिन्नत्वं, साध्यतावच्छेदताघटकसम्बन्धावच्छिन्नत्व. मित्यादिविशेषणं व्यर्थमिति [ जा. २४. पृ० ] । ____ न च कपिसंयोग्येतत्वादित्यादावव्याप्तिवारणार्थ प्रतियोगिवैयधिकरण्यनिवेशवैयर्थ्यमिति वाच्यम् । कपिसंयोगी सत्त्वादित्यादौ कपिसंयोगाभावस्य तादृशो. भयाभावविशिष्टप्रतियोगिताकत्वविरहालक्षणाघटकतयाऽतिव्याप्तिवारणाय निरव. च्छिन्नवृत्तिकाभावीयत्व, साध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितत्वोभयाभावस्य वक्तव्यतया साध्याभावमादायोक्तस्थलेऽव्याप्तिवारणाय तहलसार्थक्यात् । ___ न च विशिष्टसत्ताभाववान् जातेरित्यादावतिव्याप्तिः,-विशिष्टसत्ताभावाभावस्य विशिष्टसत्तानतिरेकितया तदीयप्रतियोगितायां तादृशोभयाभावसत्त्वेन लक्षणाघटकत्वादिति वाच्यम् । साध्यववृत्तितावच्छेदकीभूतानुयोगितानिरूपितत्वघटितोभया. भावस्य प्रतियोगितायां निवेशनीयत्वात् ।
न च प्रमेयवत्त्वान् धूमादित्यत्र प्रमेयसाध्यतावच्छेदककस्थले तादृशोभयाभाववत्प्रतियोगिताकाभावाप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् । तत्र परम्परासम्बन्धेन प्रमेयत्वस्यैव साध्यतावच्छेदकत्वात् , तथा च घटाभावमादाय तत्र लक्षणसङ्गतिः।
न च तत्राव्याप्तिवारणाय स्वावच्छिन्नवृत्तिकान्यसाध्यवद्वत्त्यभावीयत्वघटितोभयाभाववत्त्वं तादृशप्रतियोगितायां विवक्षणीयम् । घटाद्यभावस्य स्वावच्छिनटत्तिकान्यत्वाभावेन तदीयप्रतियोगितायां तादृशोभयाभाववत्वेन तमादाय लक्षणसम. न्वयसम्भवे एतावान् प्रयासोऽनुचित इति वाच्यम् । तथा सति संयोगी द्रव्यत्वादित्यादौ कपिसंयोगाभावस्यापि तथात्वेन तमादायाव्याप्तिरिति ।
मैवम् । समवायसम्बन्धावच्छिन्नवह्वयभावमादाय वह्निमान् धूमादिस्यादावव्याप्तिमाशङ्कय ग्राह्यसामानाधिकरण्ये हेतोर्यादृशः सम्बन्धः प्रविष्ट इति प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वविशेषणस्य वैयर्थ्यप्रसङ्गात् ।
न च भवतु वैयर्थ्यमिति वाच्यं, सत्यनियामकसम्बन्धावच्छिन्नप्रतियोगित्वानङ्गीकारे सम्बन्धान्तरावच्छिन्नप्रतियोगिताकसाध्याभावस्य तादृशोभयाभाववत्प्रतियोगिताकत्वविरहेण लक्षणाबटकतया स्वामित्वादिसम्बन्धेन धनादिसाध्यकद्रव्य. त्वादिहेतावतिव्याप्तेः, अस्मन्मते तु साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणहेत्वधिकरणवृत्तिसम्बन्धान्तरावच्छिन्न प्रतियोगिताकसाध्याभावमादाय नातिव्याप्तिः। अत्र च साध्यतावच्छेदकसम्बन्धेन प्रतियोगिव्यधिकरणसाध्यवद्वत्त्यभावीयत्वघटितोभयाभाववत्त्वविवक्षणे न कोऽपि दोष इति ध्येयम् ॥ ११ ॥