________________
१३६
सिद्धान्त-सक्षण-जागदीशी।
जागदीशी तदीयं [हि घटनिष्ठप्रतियोगित्वं यादृशसंयोगसम्बन्धेनावच्छिन्नं ताशसंयोगसम्बन्धसामान्येन साधनवतो द्रव्यस्य तदोयप्रतियोगितावच्छेदका वच्छिन्नसामान्यानधिकरणत्वमक्षतमेव ।
न चैवमपि तदीयस्य साध्यतावच्छेदकीभूतस्वरूपसम्बन्धावच्छिन्नप्रतियोगित्वस्याप्रसिद्ध्या न दोषसङ्गतिः, पूर्वक्षणवृत्तित्वादिविशिष्ट[स्य घटाद्यभावस्याभाव एव तत्प्रसिद्धेः' इत्याहुः ।
वितिः लक्षणघटकत्वं, तथेत्यर्थः । तदीयं = घटाभावीयं, अक्षतमेवेति । तथा च घटाभावप्रतियोगिसामान्यान्तर्गततत्तद्व्यक्तिवृत्तित्वविशिष्टघटाभावामावस्य संयोगेनाधिकरणाप्रसिद्ध्या घटस्यैव 'प्रतियोगिसामान्य'पदेन धर्तव्यतया तदनधिकरणत्वस्य हेत्वधिकरणे द्रव्ये सत्वाद्भवति 'द्रव्यत्वाभाववान् सत्वा'दित्यत्रातिव्याप्तिरिति भावः । ___ न चोक्तकल्पे 'स्वप्रतियोगित्वं यत्सम्बन्धावच्छिन्न'मित्यनुक्त्वा 'याशसम्ब. न्धावच्छिन्न'मित्याद्यभिधानस्यासङ्गतत्वमिति वाच्यम् ।
'संयोगी नित्यद्रव्यत्वा'दित्यत्र समवायेन संयोगाभावप्रतियोगिसंयोगसामान्यस्य समवाय कालिकोभयसम्बन्धेनाधिकरणं यजन्यद्रव्यादि तद्भिन्नत्वस्य हेत्वधिकरणे नित्यद्रव्ये सत्त्वात् साध्याभावस्य लक्षणवटकतयाऽव्याप्तिप्रसङ्गादिति ध्येयम् । ___ साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्य प्रतियोगितायामनुपादाने-समवायेनाभावमादाय 'वह्निमान्धूमा'दित्यत्राव्याप्तिः स्यादतस्तदुपात्तम् ।।
न चेति। दोषसङ्गतिरित्यनेनान्वयः। एवमपि = संयोगेन घटाभावस्य निरुक्तरीत्या लक्षणघटकत्वेपि, तदीयस्य = घटाभावनिरूपितस्य, न दोषसङ्गतिः= नातिव्याप्तिसम्भव इत्यर्थः। __ समाधत्ते-पूर्वक्षणेति । तथा च संयोगेन घटाभावस्य पूर्वक्षणवृत्तित्वादिविशिष्टघटाभावात्मकतया पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावेऽपि घटाभावनिरूपितस्वरूपसम्बन्धावच्छिन्नप्रतियोगित्वप्रसिध्या घटाभावस्यैव लक्षणघटकतयाऽतिव्याप्तिसङ्गतिरित्याशयः। तत्प्रसिद्धः = साध्यतावच्छेदकीभूतस्वरूपसम्बन्धावच्छिनप्रतियोगित्वप्रसिद्धः। आहुरित्यस्वरससूचनाय, तद्वोजन्तु निरुक्तप्रतियोगिवैयधिकरण्यस्य स्वत्वघटित्वेनाऽननुगतत्वमिति, न च संसर्गमुद्रयाऽनुगतत्वं सम्भवतीति वाच्यं, तादृशसंसर्गस्यानभ्युपगमादिति ध्येयम् ।