________________
सिद्धान्त-लक्षण-जागदीशी।
दीपिका धिकरण्यस्य च सत्त्वेन साध्यतावच्छेदकविशिष्टत्वात् तदन्याभावाप्रसिद्धरिति वाच्यम् । स्वरूपेण स्वाश्रयसामाधिकरण्यस्य विवक्षणीयतया घटाभावाभावमादायैव लक्षणसमन्वयसम्भवात् , घटाभावाभावस्य घटस्य संयोगेनैव सत्त्वेन स्वरूपेण प्रमेयत्वाश्रयसामानाधिकरण्याभावात् प्रमेयत्वविशिष्टान्यत्वस्य तत्राक्षतत्वात् , नच कपिसंयोगी सत्त्वादित्यत्रातिव्याप्तिः, साध्याभावस्य कपिसंयोगाभावस्य कपि. संयोगत्वाश्रयप्रतियोगिकत्व, कपिसंयोगत्वाश्रयसामानाधिकरण्योभयसम्बन्धेन कपि. संयोगत्वविशिष्टतया लक्षणाघटकत्वादिति वाच्यम् । हेत्वधिकरणवृत्त्यभावे साध्यतावच्छेदकविशिष्टान्यत्वस्य विवक्षणीयत्वात् , गुणवृत्तिकपिसंयोगाभावे कपिसंयोगसामा. नाधिकरण्यविरहेण तादृशोभयसम्बन्धेन कपिसंयोगत्वविशिष्टान्यत्वस्याक्षतत्वात् , अधि. करणभेदेनाभावस्य भिन्नत्वादिति चेदत्र वदन्ति-घटत्वाभावपटत्वाभावान्यतरवान् घटपटान्यतरत्वात् इत्यत्र घटे घटत्वाभावाभावं पटे पटत्वाभावाभावं चादायाव्याप्त्यापत्तेः, घटत्वाभावाभावादेः स्वरूपेणावर्तमानतया तादृशान्यतस्त्वरूपसाध्य. तावच्छेदकविशिष्टान्यत्वात् । नच तथापि तादृशप्रतियोगितानवच्छेकत्वस्यैव साध्यतावच्छेदके विवक्षणीयत्वान्नदोष इति वाच्यम् , तथा सति कपिसंयोगाभाववान् मेय. त्वादित्यत्राव्याप्त्यापत्तः । कपिसंयोगाभावाभावस्य कपिसंयोगात्मकस्य स्वरूपेणावृत्त्या कपिसंयोगाभावत्वरूपसाध्यतावच्छेदकविशिष्टान्यत्वेन लक्षणघटकत्वात् इति सुधीभिः विभावनीयम् ।
ननु तथापि हेतुसामानाधिकरणप्रतियोगव्यधिकरणाभावीयप्रतियोगिता. भिन्नप्रतियोगित्वाश्रयसाध्यसामानाधिकरण्यमेव व्याप्तिरस्तु, तावतैव तत्तव्यक्तित्वा. वच्छिन्नाभावं महानसीयवढ्यभावादिकं चादाय वह्निमान्धूमादित्यादावव्याप्तेारणस. म्भवात् । नच प्रमेयवान् वाच्यत्वादित्यत्राव्याप्तिः, हेतुसमानाधिकरणप्रतियोगिव्य. धिकरणाभावीयप्रतियोगिताभिन्नसाध्यनिष्ठप्रतियोगित्वाप्रसिद्धेरिति वाच्यम् । गगन. घटायुभयाभावीयप्रतियोगिताया एव तादृशप्रतियोगिताभिन्नायाः प्रसिद्धिसम्भवात्, नच कालिकेन धूमाभावीयप्रतियोगितायाः तादृशप्रतियोगिताभिन्नतयाऽतिव्याप्तिरिति वाच्यम् । तादृशप्रतियोगिताभिन्न प्रतियोगितायां साध्यतावच्छेदकभिन्नत्वस्य विवक्षणीयत्वात् । नचैवं वाच्यं ज्ञेयत्वादित्यत्र तादृशप्रतियोगिताभिन्नसाध्यतावच्छेदकीभूतस्व. रूपसम्बन्धावच्छिन्नवाच्यत्वनिष्ठप्रतियोगित्वाप्रसिद्धिरिति वाच्यम् । स्वरूपेण वाच्यत्व. गगनोभयाभावीयप्रतियोगितायास्तादृशप्रतियोगिताभिन्नायाः साध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्नत्वेन प्रसिद्धिसम्भवात् इति चेन्न, निरुक्तरीत्या धूमगगनोभयाभावीय प्रतियोगितामादाय धूमवान् वढेरित्यत्रातिव्याप्त्यापत्तेः, प्रकारान्तरानुसरणे तु वाच्यं शेयत्वादित्यत्राव्याप्ते१रुद्धरत्वापत्तेरिति तु विभावनीयमिति संक्षेपः ।