________________
अष्टावक्र उवाच।
अकर्तृत्वमभोक्तृत्वं वात्मनो मन्यते यदा। तदा क्षीणा भवंत्येव समस्ताश्चित्तवृत्तयः ।। २२७।। उच्छृखलाप्यकृतिका थति/रस्य राजते। न तु संस्पृहचित्तस्य शांतिर्मूढस्य कृत्रिमा।।२२८।। विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान्। निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः।।२२९।। श्रोत्रियं देवतां तीर्थमंगनां भूपतिं प्रियम्। दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना।।२३०।। भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः। विहस्य धिक्कृतो योगी न याति विकृति मनाक्।।२३१।। संतुष्टोऽपि न संतुष्टः खिन्नोऽपि न च खिद्यते। तस्याश्चर्यदशां तां तां तादृशा व जानन्ते।।२३२।। कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः। शून्याकारा निराकारा निर्विकारा निरामयाः।।२३३।।