________________
अप्रयत्नात् प्रयत्नाद्वा मूढ़ो नाप्नोति निर्वृतिम् । तत्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ।। २१० ।। शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयम् । आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ।। २११ । । नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा । धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ।। २१२ ।। मूढ़ो नाप्नोति तद्ब्रह्म यतो भवितुमिच्छति । अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ।। २१३ ।। निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः । एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः । । २१४ ॥ न शांतिं लभते मूढ़ो यतः शमितुमिच्छति । धीरस्तत्वं विनिश्चित्य सर्वदा शांतमानसः ।। २१५ ।।