________________
अथ
श्राद्धवर्य श्रीसरेमल- जवेरचन्द - बेडावाला-परिवारस्वद्रव्यपरिनिर्मित - श्रीपार्श्वप्रासाद-प्रतिष्ठा-प्रशस्तिः
प्रणम्य परमात्मानं महावीरं जिनेश्वरम् । प्लेटिनमस्थसच्चैत्य-प्रतिष्ठोत्सवमानुषे ॥ १ ॥
साक्षाद्यत्र स्थितः पार्श्वो, मूलशङ्खेश्वरोपमः । सूक्ष्मं निरीक्ष्यमाणोऽपि वर्णावगाहभूषणैः ॥ २ ॥
1
मुखमुद्राऽपि सैवाऽस्ति मूलशङ्खेश्वरे यथा । गर्भगृहाद्यपि ह्यत्र, मूलशङ्खेश्वरोपमम् ॥ ३ ॥ तद् राजनगरे ह्येष साक्षात् शङ्खेश्वराधिपः । पूजनैर्वन्दनैः स्तोत्रैः, सर्वकामफलप्रदः ॥ ४ ॥ बेडाग्रामीयतीर्थेश - सम्भवसमविग्रहः । श्रीसम्भवप्रभुः सम्यक्, सौम्यकान्तिः प्रतिष्ठितः ॥ ५ ॥ तथा श्रीसुमतिस्वामी, राजतेऽत्र जिनेश्वरः । सुमतिदानदक्षोऽयं, प्रतिष्ठितः प्रभास्वरः ॥ ६ ॥
"
"
शिल्पकला - प्रकर्षो ऽत्र दृश्यते हि पदे पदे । चैत्ये रम्यतया साक्षात्, स्वर्गावतार ईक्ष्यते ॥ ७ ॥ चतुर्दशापि स्वप्नानि, मङ्गलान्यष्ट चापि हि । द्वारशाखासु राजन्ते, दर्शनाऽऽनन्दनान्यहो ॥ ८ ॥
नर्तकीनां सुनृत्यानि, पाञ्चालिकामिषादिह । जिनभक्तिस्वरुपाणि, दृश्यन्ते पावनानि हि ॥ ९ ॥
प्रशस्तिः
५९