SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४३० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे दिक्षु व्यवस्थिता इत्येवंप्रकाराः, सत्यम् इति ऋतं तपः संयमो वा तत्र परिचितस्थिरे तस्थुः स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीते काले अनन्ता अपि सत्ये तस्थुः, वर्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्येयास्तिष्ठन्ति, अनागते अनन्ता अपि स्थास्यन्ति, तेषां चातीता-ऽनागत5 वर्तमानानां सत्यवतां यद् ज्ञानं योऽभिप्रायस्तदहं कथयिष्यामि भवताम्, शृणुत यूयम् । किम्भूतानां तेषां ? वीराणामित्यादीनि विशेषणानि गतार्थानि । किम्भूतं ज्ञानम् ? इति चेद् आह-'किं प्रश्ने, अस्ति विद्यते, कोऽसौ ? उपाधिः कर्मजनितं विशेषणम्, तद्यथा-नारकस्तैर्यग्यो नः सुखी दुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक इत्यादि, आहोस्विद् न विद्यते ? इति परमतमाशय त ६) ऊचुः-पश्यकस्य सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः, स एव पश्यकः, तस्य कर्मजनितोपाधिर्न विद्यते । इत्येतदनुसारेणाहमपि ब्रवीमि, न स्वमनीषिकयेति ॥ गतः सूत्रानुगमः । तद्गतौ च समाप्तश्चतुर्थोद्देशकः नयविचारातिदेशात् ॥ समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति ॥ छ । १. इति इति ख-चप्रत्योर्न । २. व्रतं क घ ङ । ३. परिचिते स्थिरे स्थित० घ, परिचिते तस्थुः स्थिरे स्थित० ङ। ४. ०विषयतो द्रष्टव्याः, ख । ५. धीराणा० च । ६. इति तदाह क । ७. ०नः सुभगो दुर्भगः सुखी दुःखी पर्या० ख ग । ८. ०ऽपर्याप्त इत्यादि क । ९. परमाशङ्क्य च । १०. त इति कप्रतौ न । ११. तदस्य ख । १२. चतुर्थमिति इति खपस्तके नास्ति । १३. ॥ छ । ६२० ।। छ । ग च, ।। छ । ग्रन्थाग्रम ६२० ॥ छ । घ ङ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy