________________
४२८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
जेण इत्यादि । येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कसादिभिः घोरं प्राणसंशयरूपं परितापं शारीर-मानसं दारुणम् असह्यमवाप्नोति अत आरम्भोपरमणं सम्यग्भूतं कुर्यात् । किं कृत्वा ? इत्याह
पैलिच्छिदि इत्यादि । परिच्छिन्द्य अपनीय, किं तत् ? श्रोतः पापो5 पादानम्, तच्च बाह्यं धन-धान्य-हिरण्य-पुत्र-कलत्रादिरूपं हिंसाद्या
श्रवद्वारात्मकं वा, चशब्दाद् आन्तरं च राग-द्वेषात्मकं विषयपिपासारूपं चेति किञ्च
निक्कम्मदंसी इत्यादि । निष्क्रान्तः कर्मणो निष्कर्मा मोक्षः संवरो वा, तं द्रष्टुं शीलमस्येति निष्कर्मदर्शी । इह इति संसारे मर्येषु मध्ये य एव निष्कर्मदर्शी 10 स एव बाह्या-ऽऽभ्यन्तर श्रोतसश्छेत्तेति । स्यात्-किमभिसन्धाय स बाह्याऽऽभ्यन्तरसंयोगस्य छेत्ता निष्कर्मदर्शी वा भवेत् ? इत्यत आह
कम्मुणा इत्यादि । मिथ्यात्वा-ऽविरति-प्रमाद-कषाय-योगैः क्रियन्ते बध्यन्ते इति कर्माणि ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा । 'स' वा
निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्ट्वा, तेषां च फलम्-ज्ञानावरणीयस्य 15 ज्ञानावृतिः, दर्शनावरणस्य दर्शनाच्छादनम्, वेदनीयस्य विपाकोदयजनिता
वेदनेत्यादि । ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति प्रदेशानुभवस्यापि सद्भावात्, तपसा च क्षयोपपत्तेरित्यतः कथं कर्मणां सफलत्वम् ? नैष दोषः, नात्र प्रकारकात्य॑मभिप्रेतम्, अपि तु द्रव्यकात्य॑म्, तच्चास्त्येव, तथाहि
यद्यपि प्रतिबन्धव्यक्ति न विपाकोदयस्तथाप्यष्टानामपि कर्मणां सामान्येन 20 सोऽस्त्येवेत्यतः कर्मणां सफलत्वमुपलभ्य ततः तस्मात् कर्मणस्तदुपा
१. कशादिभिः ग ङ । २. कुर्यादित्याह। किं ख । ३. पलिछिदि ख च । ४. परिच्छिद्य क ग । ५. स्रोत: घ ङ । ६. न वर्तते तच्च बाह्यं इति पाठः खपुस्तके । ७. ०कलत्रादि हिंसा० ख । ८. ०द्यास्रव० घ ङ । ९. ०कं च विषयपिपासा इत्यादि । किञ्च ख । १०. ०स्रोतस० ग घ । ११. किमभिसन्ध्य स ग विना । १२. कम्मुणेत्यादि ख । १३. वेदविद्वान् कर्मणां ख ग । १४. च इति खप्रतौ न । १५. वेदना चेत्यादि ख । १६. विपाकोदयः प्रदेशा० ख ग । १७. क्षयोपपत्तेः कथं ख । १८. ०रित्येतत् कथं क । १९. प्रतिषेधं व्यनक्ति न विपाको० ख । २०. ०मुपलभ्यते तस्मात् घ ङ।