________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्र
उपशान्तमोहः, उपशमवीतराग इत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मुहूर्तं भवति, ततः प्रच्यवत एवेति, तथा क्षीणो निःसत्ताकीभूतो मोहो यस्य स तथा, क्षयवीतराग इत्यर्थः, अयमप्यन्तर्मुहूर्तमेवेति, तथा सयोगी केवली मन:प्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली निरुद्धमनःप्रभृतियोगः शैलेशीगतो 5 ह्रस्वपञ्चाक्षरोद्रिणमात्रं कालं यावदिति चतुर्दशं जीवस्थानमिति ।।
भरहेत्यादि, भारतैरवत्यौ जीवे, इह भरतमैरवतं चारोपितगुणकोदण्डाकारमतस्तयोर्जीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरा प्रदेशश्रेणी जीवा ऐरवतस्य च शिखरिण: परतोऽनन्तरप्रदेशश्रेणीति ।
चातुरंतचक्कवहिस्स त्ति चत्वारोऽन्ता विभागा यस्यां सा चतुरन्ता भूमिः, तत्र भवः 10 स्वामितयेति चातुरन्त:, स चासौ चक्रवर्ती चेति विग्रहः। रत्नानि स्वजातीयमध्ये
समुत्कर्षवन्ति वस्तूनीति, यदाह- रत्नं निगद्यते तजातौ जातौ यदुत्कृष्टम् [ ] इति । ___गाहावइ त्ति गृहपतिः कोष्ठागारिकः, पुरोहिय त्ति पुरोहितः शान्तिकर्मादिकारी, वड्डइ त्ति वर्द्धकिः रथादिनिर्मापयिता, मणिः पृथिवीपरिणामः, काकणी सुवर्णमयी
अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषाण्येकेन्द्रियाणीति । 15 श्रीकान्तमित्यादीन्यष्टौ विमानानीति ।।१४।।
[सू० १५] [१] पण्णरस परमाहम्मिया पण्णत्ता, तंजहाअंबे अंबरिसी चेव, सामे सबले त्ति यावरे । रुद्दोवरुद्द काले य, महाकाले त्ति यावरे ।।११।। असिपत्ते धणु कुम्भे वालुए वेयरणी ति य । खरस्सरे महाघोसे एते पण्णरसाहिया ।।१२।। १। णमी णं अरहा पण्णरस धणूई उटुंउच्चत्तेणं होत्था २। धुवराहू णं बहुलपक्खस्स पाडिवयं पन्नरसतिभागं पन्नरसतिभागेणं चंदस्स लेसं आवरेत्ता णं चिट्ठति, तंजहा– पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसमं १. "क्षवीत' ख़मू०. क्षपकवी' खस० ॥
20