________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
संतेगतिया भवसिद्धिया जीवा जे चोद्दसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदक्खाणं अंतं करेस्संति ३।
[टी०] अथ चतुर्दशस्थानकं सुबोधं च, नवरमिहाष्टौ सूत्राण्याक् स्थितिसूत्रादिति. तत्र चतुर्दश भूतग्रामाः, भूतानि जीवाः, तेषां ग्रामा: समूहाः भूतग्रामाः, तत्र 5 सूक्ष्मा: सूक्ष्मनामकर्मोदयवर्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूता: ? अपर्याप्तका: तत्कर्मोदयादपरिपूर्णस्वकीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्याप्तका: तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः, एवं बादरा बादरनामोदयात् पृथिव्यादय एव. तेऽपि पर्याप्ततरभेदाद् द्विधा, एवं द्वीन्द्रियादयोऽपि, नवरं पञ्चेन्द्रिया: सज्ञिनो मन:पर्याप्त्युपेताः, इतरे त्वसचिन इति । 10 तथा उप्पायपुव्वेत्यादि गाथात्रयम्, तत्र उप्पायपुव्वमग्गेणियं च त्ति
यत्रोत्पादमाश्रित्य द्रव्य-पर्यायाणां प्ररूपणा कृता तदुत्पादपूर्वम्, यत्र तु तेषामेवाऽग्रं परिमाणमाश्रित्य तदग्रेणीयम्, तइयं च वीरियं पुव्वं ति यत्र जीवादीनां वीर्यं प्रोद्यते प्ररूप्यते तद्वीर्यप्रवादम्, अत्थीनत्थिपवायं ति यद्यथा लोके अस्ति नास्ति च तद्यत्र
प्रोद्यते तदस्तिनास्तिप्रवादम्, तत्तो नाणप्पवायं च त्ति यत्र ज्ञान मत्यादिकं स्वरूप15 भेदादिभि: प्रोद्यते तज्ज्ञानप्रवादमिति, सच्चप्पवायपुव्वं ति यत्र सत्यः संयम: सत्यवचन
वा सभेदं सप्रतिपक्षं प्रोद्यते तत् सत्यप्रवादपूर्वम्, तत्तो आयप्पवायपुव्वं च त्ति यत्रात्मा जीवोऽनेकनयैः प्रोद्यते तदात्मप्रवादमिति, कम्मप्पवायपुव्वं ति यत्र ज्ञानावरणादि कर्म प्रोद्यते तत् कर्मप्रवादमिति, पच्चक्खाणं भवे नवमं ति यत्र प्रत्याख्यानस्वरूपं वर्ण्यते तत् प्रत्याख्यानमिति । विजाअणुप्पवायं ति यत्रानेकविधा 20 विद्यातिशया वर्ण्यन्ते तद्विद्यानुप्रवादम्, अवंझपाणाउ बारसं पव्वं ति यत्र सम्यग्ज्ञानादयोऽवन्ध्या: सफला वर्ण्यन्ते तदवन्ध्यमेकादशम्. यत्र प्राणा जीवा आयुश्चानेकधा वर्ण्यन्ते तत् प्राणायुरिति द्वादशं पूर्वम्, तत्तो किरियविसालं ति यत्र क्रिया: कायिक्यादिका: विशाला विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालम्, पुव्वं तह बिंदुसारं च त्ति लोकशब्दोऽत्र लुप्तो द्रष्टव्यः, ततश्च लोकस्य बिन्दरिवाक्षरस्य १. वर्ण्यते खु० जर हर ।।